न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 594, कुल 608 में से
संदर्भ में पढ़ें५६२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां करणस्येष्टसाधनताऽभिधाने ज्योतिष्टोमेनेति तृतीया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव । तत्सङ्ख्याऽभिधानं हि तदभिधानमाख्यातेन, न च तत् प्रकृते । न च यागेष्टसाधनताऽभिधानं लिङा, किन्तुन्वयबलाल्लाभ इत्युक्तम् । यत्तु सिद्धापदेशादपि प्रतीयते इष्टसाधनता, न चातः सङ्कल्पात्मा प्रवृत्तिर- स्तीति देश्यम् । तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनताऽवगमेऽपि न प्रवृत्तिरिति कः प्रतीयात् । सर्व्वपक्षसमानञ्चैतत् समानपरीहारञ्चेति किन्तेन । प्रकाशः । ननु यदिष्टसाधनता लिङर्थः, 'तदा ज्योतिष्टोमेन यजेते'त्यादौ तृतीया न स्यात्, यागकरण- त्वस्य लिङैवाभिधानादित्यत ( १ ) आह करणस्येति । लिङाख्यातेन यागसंख्याभिधा- नरूपं तदभिधानं वाच्यम्, न चैवमिहास्तीत्याह तत्संख्येति । यजेतेत्यत्र हि न करणे लकारो येन तद्गतसंख्यामभिदध्यात्, किन्तु कर्त्तरीति तत्संख्याऽभिधाने तृतीयोपयोगः, तृतीयातोऽपि लब्धे करणत्वे नेह तात्पर्य्यमित्यर्थः । लिङा चेष्टसाधनतामात्राभिधानेऽपि न यागस्य तदभिधान- मित्याह न चेति । यद्यप्येवमप्यभिधानमस्ति, तथापि वाक्यार्थतया न पदार्थतया, तथाऽनभि- धानञ्चा'नभिहित' इति सूत्रे विवक्षितमित्येके । लिङ्कृत्तद्धितैः परिसंख्यानं नियामकमित्यन्ये । यत्त्विति । यागः स्वर्गसाधनमिति सिद्धार्थवाक्यादिष्टसाधनत्वज्ञानेऽपि न प्रवृत्तिरिति नायं विधिरित्यसिद्धं, ततोऽपि स्वर्गकामस्य तत्साधनताज्ञानवतः प्रवृत्तेरित्यर्थः । अन्येषामपि विधीनां सिद्धार्थात् प्रतीतावप्रवृत्त्या न ते विधयः स्युरित्याह सर्व्वपक्षेति । एतद्दूषणमित्यर्थः । एवमिष्ट- प्रकाशिका । भावः । तत्रादिपदेनेति भावः । न चपूर्वन्तदर्थस्य लिङर्थ इत्यर्थो न तु भाव्यं लिङर्थ इति वाच्यम् । तदर्थ इत्यत्र तत्पदेन यजेतेत्यादौ समुदायस्यैवोक्तत्वादिति । लिङेवाभिहितत्वादिति । तृतीयायाश्चानभिहिताधिकारीयत्वादिति भावः । तृतीयोपयोग इति । तृतीयासम्भव इत्यर्थः । कारणसंख्यायाश्च अनभिधानात्तदभिधानाभावस्यैव चानभिहितसूत्रार्थत्वादिति भावः । नन्वेवं तृतीयाया आख्यातेन च करणत्वाभिधाने पौनरुक्त्यमत आह तृतीयातोपीति । तात्पर्य्यगौरवाद्यु- क्तदोषाच्च वाजपेयाधिकरणन्यायादनन्वितमेव तृतीयोपस्थाप्यं करणत्वमिति भावः । एके इत्यरुचौ, तद्बीजन्तु एवंसति क्वाप्यभिधानं न स्याद्विशिष्यस्य सर्व्वत्रापदार्थत्वादिति । परिसंख्यानं विशेषः, स च विषयविशेषाधीनः प्रयोगानुसारकल्प्य इति भावः । विशेषस्यानुगतस्याभावान्न नियामकत्व- मित्यरुचिमाविष्करोति अन्य इति । हेतुत्वादिति कारिकास्थदलस्य प्रतीतलिङ्गार्थत्वे त्वाकांक्षाया- मकरन्दः । तत्रादिपदेनेति । न च तदर्थ इत्यस्य पूर्वं लिङर्थ इति विवरणाद्यागस्य च लिङर्थत्वा- भावाद्विरोध इति वाच्यम् । लिङर्थत्वेन तस्यापि विकल्पे दोषाभिधाने दोषाभावादित्यर्थः । तदर्थ इत्यत्र तच्छब्देन शब्दस्यैव विवक्षा, उपस्थितत्वात् । न लिङः, अनुपस्थितत्वात् । प्रकाशे च लिङर्थ इति विवरणं भावनामात्राभिप्रायेणेत्याहुः । तृतीयोपयोग इति । तृतीयासम्भव इत्यर्थः । कारणसङ्ख्याया अनभिहितत्वादिति भावः । नन्वेवं तृतीया करणत्वस्याभिधानात् लिङाऽपि च तदभिधाने पौनरुक्त्यमित्यत आह तृतीयातोऽपीति । गौरवादुक्तदोषाच्चेति भावः । वाजपेयाधिकरणन्यायात् कर्मनामधेयतया तृती- यायाः प्रथमं मूकत्वादित्यन्ये । ( १ ) लिङैवाभिहितत्वादिति प्रकाशिकाभिमतः पाठः ।