न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 595, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तवके ] ईश्वरसाधनम् । ५६३ अत्राभिधीयते—अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः, तथापि नासौ लिङर्थः, सन्देहात् । सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादाव- नुमानादिव बालेन; किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते, चेष्टाविशेषा- नुमितादिवाभिप्रायविशेषात् समयाभिज्ञेनेति सन्दिह्यते । एवञ्च सति सा नाभि- धीयते इत्येव निर्णयः ॥ १३ ॥ हेतुत्वाद्वनुमानाच्च मध्यमादौ वियोगतः । अन्यत्र क्लृप्तसामर्थ्यान्निषेधानुपपत्तितः ॥ १४ ॥ तथाहि—अग्निकामो दारूणी मथ्नीयादिति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति, यतस्तन्मन्थनादग्निरस्य सिद्ध्यतीति । तरति ब्रह्महत्यां योऽश्वमेधेन यजते इत्या- दाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः—यदश्वमेधेन यजेत मृत्यु- ब्रह्महत्यातरणकाम इत्यादिविधिम् । निन्द्या च निषेधम् । तत् यथा— प्रकाशः । साधनतां विधिं व्युत्पाद्य स्वसिद्धान्तेन निराकर्तुं सन्देहं तावदाह अस्त्विति । स्तनपानादाविति । यथा स्तनपानादेरिष्टसाधनत्वं साक्षादेव पानादवगम्यते इत्यर्थः । तत्प्रतिपादितादिति । लिङा बोधितादाप्ताभिप्रायादिष्टसाधनत्वमनुमीयते, ततः प्रवृत्तिरित्यर्थः । समयश्चेच्छाविशेषः सङ्केतः । एवञ्चेति । इष्टसाधनता न लिङाऽभिधीयते, किन्त्वाप्ताभिप्रायविषयत्वेनानुमीयते इत्यर्थः । तदुपपादयति-हेतुत्वादिति । अनुमानादिति । विधेरिति शेषः । मध्यमादाविति । मध्यमपुरुषोत्तमपुरुषलिङि इष्टसाधनतावियोगादित्यर्थः । अन्यत्रेति । आज्ञाऽध्येपणादौ लिङ- इच्छाविषयत्वकल्पनात् लिङ्मात्रस्य तयौचित्यादित्यर्थः । निषेधेति । सर्वत्र विधिप्रकारेपु न हन्यादिति निषेधानुपपत्तेरित्यर्थः । हेतुत्वादिति व्याचष्टे अग्निकाम इति । लिङैवेष्टसाधनत्वाभिधाने यतस्तन्मथनादिति हेत्व- भिधानं व्यर्थमित्यर्थः । अनुमानादिति विवृणोति तरतीति । लिङेष्टसाधनताऽभिधाने विधेरनुमानं व्यर्थं, तदर्थस्य वाक्यादेव प्रतीतेरिति तदन्य एव लिङर्थ इत्यर्थः । मध्यमादाविति व्याचष्टे- प्रकाशिका । मिष्टसाधनत्वस्य तद्धेतुत्वेनाभिधानादित्यर्थः । ननु न हन्यादित्यत्र हननाभावविषयकभावनैवार्थो- मकरन्दः । परिसङ्ख्यानमित्यभिधानपर्याय एव अन्यस्य दुर्वचत्वादित्यनुशयमाविष्करोति इत्यन्ये इति । टिप्पणी । हेतुत्वादिति । नेष्टसाधनत्वं विध्यर्थ इति शेषः । सिध्यतीति । इष्टसाधनत्वस्य विध्यर्थत्वेऽङ्गी- क्रियमाणे तु दारुमथनमिष्ट (अग्नि) साधनमिष्टसाधनत्वादित्यनुमिनुयांत, न च तत्संभवति हेतुसाध्य- योरविशेषात्, आप्ताभिप्रायस्य विध्यर्थत्वे तु आप्ताभिप्रायविषयत्वादिति हेतुः सम्भवतीति भावः । अनुमानादिति । 'तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इत्याद्यर्थवादतो मृत्यु- तरणादिरूपेष्टसाधनत्वस्याश्वमेधेऽवगमेऽपि अनन्तरं 'मृत्युब्रह्महत्यासंतरणकामोऽश्वमेधेन यजेदि'ति विध्यनुमानं सर्वसम्मतं भवति तस्य वैयर्थ्यम्, इष्टसाधनत्वस्य विध्यर्थत्वे हि अश्वमेध इष्टसाध- नमिति प्रतीतिः स्यात् सा चार्थवादलब्धैवेत्यर्थः । मध्यमादाविति । मध्यमपुरुषे उत्तमपुरुषे चेत्यर्थः । कुर्याः कुर्यामित्यादौ सर्वत्रैवेष्टसाधनत्वस्य वियोगः, तत्र हि आज्ञादिः प्रतीयते न त्विष्टसाधनत्वमित्यर्थः। अध्येषणादिलिङामिच्छावाचकत्वादपि न तथेत्याह अन्यत्रेति ।