न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 596, कुल 608 में से
संदर्भ में पढ़ें५६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः— इत्यतो नात्मानं हन्यादिति । कुर्याः कुर्यामित्यत्र विधिविहितैव लिङ् नेष्टा- भ्युपायतामाह, किन्तु वक्तृसङ्कल्पम् न हीष्टाभ्युपायो ममायमिति कुर्यामिति पदार्थः, किन्तु तत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः—कुर्यामिति, स एव । सर्व्वत्र चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिङेत्यवधृतम् । तथा ह्याज्ञाऽध्येपणाऽनुज्ञासंप्रश्न- प्रार्थनाऽऽशंसालिङि नान्यत् चकास्ति । यां वक्तुरिच्छामनुविदधानस्तत्तक्षोभाद्बिभेति, सा आज्ञा । या तु श्रोतुः पूजासम्मानव्यञ्जिका, सा अध्येपणा । वारणाभावव्यञ्जिका अनुज्ञा । अभिधान- प्रयोजना सस्प्रश्नः । लाभेच्छा प्रार्थना । शुभाशंसनमाशीरिति । न च विधिविकल्पेषु निषेध उपपद्यते । तथाहि—यदाऽभिधा विधिः, तदा न हन्यात् हननभावना नाभिधीयते इति वाक्यार्थो व्याघातान्निरस्तः । यदा काल- त्रयापरामृष्टा भावना, तदा नेति सम्बन्धोऽत्यन्ताभावोमिथ्या । यदा कार्यं, तदा न हन्यात् न हननं कार्यमित्यनुभवविरुद्धम् । क्रियत एव यतः । न हननेन कार्यं हननकारणं कार्यं नास्तीत्यर्थ इत्यपि नास्ति । दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य प्रकाशः। कुर्या इति । तवेदमिष्टसाधनमतः कुर्याः, ममेदमिटसाधनमतः कुर्यामिति व्यवहारान्मध्यम- पुरुषादौ सङ्कल्प एव लिङर्थ इत्यर्थः । अन्यत्र क्लृप्तसामर्थ्यादिति विवृणोति सर्वत्रेति । अन्तिमं हेतुं व्याचष्टे न चेति । न हन्यादिति निषेधेन सह हननान्वये हननाभावविषया भावना तदर्थः स्यात् । तत्र च विधिद्वैयर्थ्यं, हननप्रागभावात्यन्ताभावयोरसाध्यत्वात् । हननभावना नास्तीत्यन्वयस्तु न सम्भ- वति, बाधात् । ततो हननविषयभावनाऽभिधाय निषेधो वाच्यः, तत्राह व्यापारादिति । अभि- धाविधिवादिनां हन्यादिति पदं हननभावनाऽभिधायकमैवेति तन्निषेधे व्याघात इत्यर्थः । यद्यपि भटानामभिधा न सङ्केतः किन्तु शक्यनिष्ठं धर्मान्तरं, तथापि सिद्ध्यासद्धिव्याघाताभ्यां तन्निषेधो न शक्य इति भावः । यदा कालत्रयापरामृष्टा भावनेत्यत्र विधिरित्यनुषज्यते । एवमुत्तरत्र । कदाचिद्धननभावनायाः सत्त्वात्तन्निषेधस्यात्यन्ताभावरूपत्वं नास्तीत्याह तदा नेतीति । कार्यताविधिपक्षे निषेधानुपपत्तिमाह यदा कार्यमिति । यद्याख्यातेन नञन्वयः, तदा हनने कृतिसाध्यत्वकृत्युद्देश्यत्वयोरुभयोरपि सत्त्वान्निषेधो बाधित इत्यर्थः । हननस्य कार्यमाह दुःखनिवृत्तीति । प्रकाशिका । स्त्वितयत आह न हन्यादिति निषेधेनेति । असाध्यत्वादिति । तथा च न तत्र विषयतया भावनान्वय इति भावः । अभिधाविधिवादिनामिति । हननभावनया समं वाच्यवाचकभावलक्षणो लिड्सम्बन्धोऽभिधा, तन्निषेधश्चाशक्यः, तथा सति तद्बोधानुपपत्तेरिति भावः । यद्यपीति । तथा च न व्याघातः, वाच्यवाचकभावलक्षणाभिधानपक्ष एव तत्सम्भवादिति भावः । शक्यनिष्ठं धर्मान्तरमिति । यद्यपि भट्टानां शब्दनिष्ठा भावना न शक्यनिष्ठा, तथापि तथासति सिद्धसाधन- मकरन्दः । यद्यपीति । तथा च नोक्तव्याघातः, वाच्यवाचकभावसम्बन्धात्मकाभिधापक्ष एव तत्सम्भ- वादिति भावः ।