न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
५६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः— इत्यतो नात्मानं हन्यादिति । कुर्याः कुर्यामित्यत्र विधिविहितैव लिङ् नेष्टा- भ्युपायतामाह, किन्तु वक्तृसङ्कल्पम् न हीष्टाभ्युपायो ममायमिति कुर्यामिति पदार्थः, किन्तु तत्प्रतिपत्तेरनन्तरं योऽस्य सङ्कल्पः—कुर्यामिति, स एव । सर्व्वत्र चान्यत्र वक्तुरेवेच्छाऽभिधीयते लिङेत्यवधृतम् । तथा ह्याज्ञाऽध्येपणाऽनुज्ञासंप्रश्न- प्रार्थनाऽऽशंसालिङि नान्यत् चकास्ति । यां वक्तुरिच्छामनुविदधानस्तत्तक्षोभाद्बिभेति, सा आज्ञा । या तु श्रोतुः पूजासम्मानव्यञ्जिका, सा अध्येपणा । वारणाभावव्यञ्जिका अनुज्ञा । अभिधान- प्रयोजना सस्प्रश्नः । लाभेच्छा प्रार्थना । शुभाशंसनमाशीरिति । न च विधिविकल्पेषु निषेध उपपद्यते । तथाहि—यदाऽभिधा विधिः, तदा न हन्यात् हननभावना नाभिधीयते इति वाक्यार्थो व्याघातान्निरस्तः । यदा काल- त्रयापरामृष्टा भावना, तदा नेति सम्बन्धोऽत्यन्ताभावोमिथ्या । यदा कार्यं, तदा न हन्यात् न हननं कार्यमित्यनुभवविरुद्धम् । क्रियत एव यतः । न हननेन कार्यं हननकारणं कार्यं नास्तीत्यर्थ इत्यपि नास्ति । दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य प्रकाशः। कुर्या इति । तवेदमिष्टसाधनमतः कुर्याः, ममेदमिटसाधनमतः कुर्यामिति व्यवहारान्मध्यम- पुरुषादौ सङ्कल्प एव लिङर्थ इत्यर्थः । अन्यत्र क्लृप्तसामर्थ्यादिति विवृणोति सर्वत्रेति । अन्तिमं हेतुं व्याचष्टे न चेति । न हन्यादिति निषेधेन सह हननान्वये हननाभावविषया भावना तदर्थः स्यात् । तत्र च विधिद्वैयर्थ्यं, हननप्रागभावात्यन्ताभावयोरसाध्यत्वात् । हननभावना नास्तीत्यन्वयस्तु न सम्भ- वति, बाधात् । ततो हननविषयभावनाऽभिधाय निषेधो वाच्यः, तत्राह व्यापारादिति । अभि- धाविधिवादिनां हन्यादिति पदं हननभावनाऽभिधायकमैवेति तन्निषेधे व्याघात इत्यर्थः । यद्यपि भटानामभिधा न सङ्केतः किन्तु शक्यनिष्ठं धर्मान्तरं, तथापि सिद्ध्यासद्धिव्याघाताभ्यां तन्निषेधो न शक्य इति भावः । यदा कालत्रयापरामृष्टा भावनेत्यत्र विधिरित्यनुषज्यते । एवमुत्तरत्र । कदाचिद्धननभावनायाः सत्त्वात्तन्निषेधस्यात्यन्ताभावरूपत्वं नास्तीत्याह तदा नेतीति । कार्यताविधिपक्षे निषेधानुपपत्तिमाह यदा कार्यमिति । यद्याख्यातेन नञन्वयः, तदा हनने कृतिसाध्यत्वकृत्युद्देश्यत्वयोरुभयोरपि सत्त्वान्निषेधो बाधित इत्यर्थः । हननस्य कार्यमाह दुःखनिवृत्तीति । प्रकाशिका । स्त्वितयत आह न हन्यादिति निषेधेनेति । असाध्यत्वादिति । तथा च न तत्र विषयतया भावनान्वय इति भावः । अभिधाविधिवादिनामिति । हननभावनया समं वाच्यवाचकभावलक्षणो लिड्सम्बन्धोऽभिधा, तन्निषेधश्चाशक्यः, तथा सति तद्बोधानुपपत्तेरिति भावः । यद्यपीति । तथा च न व्याघातः, वाच्यवाचकभावलक्षणाभिधानपक्ष एव तत्सम्भवादिति भावः । शक्यनिष्ठं धर्मान्तरमिति । यद्यपि भट्टानां शब्दनिष्ठा भावना न शक्यनिष्ठा, तथापि तथासति सिद्धसाधन- मकरन्दः । यद्यपीति । तथा च नोक्तव्याघातः, वाच्यवाचकभावसम्बन्धात्मकाभिधापक्ष एव तत्सम्भ- वादिति भावः ।
पंचमस्तवके ] ईश्वरसाधनम् । ५६५ तत्र सद्भावात् । हननकारणकमदृष्टं नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्त्त- येदेवेति साधु शास्त्रार्थः । अहननेनापूर्वं भावयेदिति त्वशक्यम् । कारणस्याना- दित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तद्विषयत्वात् । अहननसङ्क- ल्पेनेति यावज्जीवमविच्छिन्नतत्सङ्कल्पः स्यात् । सकृत् कृत्वैव वा निवृत्तिः । पश्चा- द्धन्त्यादेवाविरोधात् । सम्पादितो ह्यनेन नियोगार्थः । यावद् यावद्धनन सङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वादित्यपि वार्त्तम् । तदश्रुतेः । प्रसक्तं हि प्रति- षिध्यते नाप्रसक्तमिति चेत् । न वै किञ्चिदिह प्रतिषिध्यते । तदभावः प्रतिपाद्यते इति निषेधार्थः । हननकरणकमपूर्वं वाक्यार्थः ॥ किञ्च न हन्यादिति अहननेनापूर्वस्य कर्त्तव्यताप्रत्ययो जातो वेदात् , जातश्च हननक्रियायां रागात् । निष्फलाच्च कार्यादपेक्षितफलं गरीय इति न्यायेन हन्यादे- वेत्यहो वेदव्याख्याकौशलमास्तिकाभिमानिनो मीमांसकदुर्दुरूढस्य । प्रकाशः । निरातङ्कमिति । अत्र किं सुकृतापूर्वस्य निषेधः, दुरितापूर्वस्य वा ? आद्ये धर्मानुत्पादेऽप्यध- र्मोत्पादकमानाभावाददृष्टफलार्थी हनने प्रवर्त्तेत । अन्त्ये च सुतरां प्रवृत्तिः स्यादित्यर्थः । अथ नञ्- धात्वर्थान्वयः, तत्राह अहननेति । कारणस्येति । हननप्रागभावस्यानादित्वादनाद्यपूर्वं स्यादित्यर्थः । ननु हननप्रागभावविषया भावनाऽपूर्वमुत्पादयिष्यतीत्यत आह भावनायाश्चेति । प्रागभावस्तदा भावनाविषयः स्यात् , यदि तत्स्वरूपं भावनासाध्यं स्यात् , न चैवमित्यर्थः । सङ्कल्पविधिपक्षे निषेधानुपपत्तिमाह अहननेति । सर्वदा किमह play? किमहनन सङ्कल्पेनापूर्वं भावये- दित्यर्थः, यदा कदाचिद्वा ? आद्ये, यावज्जीवमिति । अन्त्ये, सकृदिति । नियोगार्थो विध्यर्थः । विपरीतेति । अहननसङ्कल्पेनेत्यर्थः । तथाभूतस्येति । प्रवृत्तिमत्त एव निषेधापूर्वेऽधिकारादित्यर्थः । तदश्रुतेरिति । हनन सङ्कल्पवतो विपरीतसङ्कल्पकत्वाश्रुतेरित्यर्थः । ननु प्रसक्तं हननं निषेध्यं, प्रसङ्गश्च तत्करणसङ्कल्प एव, इच्छाया एवाद्यप्रवृत्तित्वादित्यश्रुतमपि तल्लभ्यते इत्याह प्रसक्त- मिति । नात्र हननं निषिध्यते, किन्तु हननाभावसङ्कल्पकारणकमपूर्वं विधीयते इत्याह न वै किञ्चिदिति । किञ्चेति । अपूर्ववाच्यत्वेऽपि 'न कलञ्जं भक्षयेदि'त्यादितः कलञ्जभक्षणाभावविषयकमपूर्वमव- गम्यापि तदभावे न प्रवर्त्तेत । तथाहि कलञ्जभक्षणे रागादस्य कर्त्तव्यता बुद्धिर्जाता, शब्दाच्च भक्ष- णाभावे । निःफलाच्च कार्यात् सफलं गरीय इति न्यायेन सुखहेतौ भक्षण एव प्रवर्त्तेत, न तदभावे, तस्य निःफलत्वात् । न च निषेधापूर्वमेव फलं तस्य सुखदुःखाभावान्यतया षण्डत्वेन तदजनकतया च गौणमुख्यप्रयोजनत्वाभावात् । प्रकाशिका । मेव शब्दधर्मस्यार्थभावनानुरूपेऽभावादिति मतान्तरमेवेदमर्थनिष्ठाभिधेति भावः । संकल्पविधिपक्षे इति । सङ्कल्पेति लिङर्थान्वयपक्ष इत्यर्थः । तेन नाग्रेतनविकल्पविरोध इत्यवधेयम् । यावज्जीवमिति । न च तत्सम्भवति सुषुप्त्याद्याद्यनुपपत्तेरिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगेऽधिकारात् प्रवृ- त्तिश्चप्रसङ्गो न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः । मकरन्दः । यावज्जीवमिति । न च तत्सम्भवति, सुषुप्त्यादिदशायां तद्विच्छेदादिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगाधिकारात् प्रसङ्गः प्रवृत्तिः न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः ।
५६६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १४ कारिकान्याख्यायां इष्टसाधनतापक्षेऽपि न हन्यात् न हननभावना इष्टाम्युपाय इति वाक्यार्थः । तथाचानिष्टसाधनत्वं कुतो लभ्यते। न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टमुपेक्षणीयस्यापि भावात् । यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथा सविषमन्नं न भुञ्जीथा इति, तेन वेदेऽप्यनुमास्यते, इत्यपि न साधीयः । प्रतिषेधार्थस्यैव चिन्त्यमानत्वात् । न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वाऽभावः प्रतिपादयितुं शक्यते, लौकिकानां लौकिकप्रमाणसिद्धत्वात् । तथापि प्रतिपाद्यते तावदिति चेत् । न । पाषण्डागमनिषेधेनानैकान्तात् । नासौ प्रमाणमिति चेत् । न । अर्थविपर्ययप्रति- पादनाविशेषेऽस्यापि तथाभावात् । तात्पर्यतः प्रामाण्यमिति चेत् । न । विधिनिषेधयोरनन्यपरत्वात् । न विधौ परः शब्दार्थ इति वचनात् । तथापि निषेधे तथा भविष्यतीति चेत् । न । अविना- प्रकाशः। अथ प्रवृत्तिमतो निवृत्तिनियोगाधिकार इति यदा भक्षणे प्रवृत्तिस्तदा तन्निषेधे शब्दकार्यज्ञाना- तद्विपरीतप्रयत्ने जनिते रागान्न क्रियोत्पत्तिः, तेनैव प्रतिबन्धादिति चेत् । निवृत्तिकार्यताज्ञानेऽपि निष्फलत्वे निवृत्तौ प्रयत्न एव नोत्पद्यते, यस्य प्रतिबन्धकता स्यात् । न च शास्त्रस्थस्य शास्त्रज- कर्तव्यताज्ञानं बलवदिति वाच्यम् । तस्य सफलविषयत्वादेवांस्य च निष्फलविषयत्वात् । अथ कल- ञ्जभक्षणस्य निन्दार्थवादेन बलवदनिष्टसाधनत्वज्ञानात् तद्भक्षणे न प्रवर्त्तते इति चेत् । एवमपि कलञ्जभक्षणे न प्रवर्त्ततां, तदभावेऽपि निष्प्रयोजनत्वेनाप्रवृत्तौ किमायातमित्यर्थः । तथाचेति । वस्तुतः शत्रुहननभावनायाः कलञ्जभक्षणभावनायाश्चेष्टसाधनत्वमस्त्येवेति भावः । अत एव वक्ष्यति न हीति । अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति न्यायेनाह तथा- पीति । प्रसक्तैव हिंसा यागादिविषया पाषण्डेन प्रतिषिध्यते, न च सा अनिष्टसाधनमिति व्यभि- चार इत्याह पाषण्डेति । नासाविति । प्रमाणत्वेन हेतुर्विशेष्य इत्यर्थः । प्रमाणबाधितार्थविषय- त्वेन पाषण्डागमस्येव न हन्यादित्यस्याप्यप्रमाणत्वादित्याह अर्थेति । ननु गङ्गायां घोष इत्यस्येव न हन्यादित्यस्याप्यर्थान्तरे निषिध्यमानानिष्टसाधनत्वरूपे तात्प- र्याद्बोधकत्वं स्यादित्याह तात्पर्यत इति । अर्थवादवचनानामन्यत्र विधौ तात्पर्यं न तु विधिवच- नस्येत्यभ्युपगमात् तदनुरोधेनान्यत्र लक्षणा युक्ता न तु तत्रैवेत्याह । न विधाविति । भाववि- धावेव तथा न तु निषेधविधावपीत्याह तथापीति । यत्र लक्षणीयार्थेनाविनाभावस्तदुद्देशेन प्रयोगश्च तत्रैव लक्षणा, न च न हन्यादिति वाक्यमन्यपरत्वेन प्रयुक्तं, न वाऽनिष्टसाधनत्वेनाविनाभाव इत्याह अविनाभावेति । ननु यथा असुरादिपदे न निषेधो नञर्थः किन्तु तदन्यद्विरोधि, प्रकाशिका । वस्तुत इति । तथा च तदभावप्रतिपादने बाध इति भावः । न हीति । न हि कर्त्तव्यत्वस्य मकरन्दः। अत एव न हि कर्त्तव्यत्वस्येष्टसाधनत्वस्य वा अभावः प्रतिपादयितुं शक्यते इति वक्ष्यती- त्याह न हीति । टिप्पणी । 'न कलञ्जं भक्षयेदि'त्यादौ तृप्तिरूपेष्टसाधनत्वस्य सत्त्वान्निषेधानुपपत्तिरित्याह निषेधेति ।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५६७ भावतदुद्देशप्रवृत्त्योरभावात् । नाप्यसुरामित्रादिवदस्य नञो विरोधिवचनत्वम्, क्रियासङ्गतत्वात् । असमस्तत्वाच्च ॥ १४ ॥ तस्माद्— विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥ १५ ॥ तत्र स्वयङ्कर्तृकक्रियेच्छाऽभिधानं कुर्यामिति । सम्बोध्यकर्तृकक्रियेच्छाऽ- भिधानं कुर्या इति । शेषकर्तृकक्रियेच्छाऽभिधानं कुर्वीतेति । तथाचाग्निकामो दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्यायमर्थः सम्पद्यते अग्निकामस्य दारु- मथने प्रवृत्तिर्ममेष्टेति । ततः श्रोताऽनुमिनोति–नूनं दारुमथनयत्नोऽग्नेरुपाय इति । यद्विषयो हि प्रयत्नो यस्यानेनेष्यते, स तस्यापेक्षितहेतुः । तथा तेनावगतश्च, यथा ममैव पुत्रादेर्भोजनविषय इति व्याप्तेः । विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टा इत्यर्थः । ततोऽपि श्रोताऽनुमिनोति-नूनं विषभक्षणभावना अनिष्टसाधनम् । यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोऽप्याप्तेन नेष्यते, स ततोऽधिकतरानर्थहेतुः, तथा तेनावगतश्च, यथा ममैव पुत्रादेः क्रीडाकर्द्दमविषभक्षणादिविषय इति व्याप्तेः । प्रकाशः । तथाऽनेष्टसाधनविरोध्यनिष्टसाधनमर्थः स्यादित्यत आह नापीति । क्रियासङ्गतस्य नञः प्रसज्यप्र- तिषेधवाचकत्वात् समास एव तस्य पर्युदासवृत्त्या तदितरविरोधिपरत्वादित्यर्थः । नियोक्तृधर्मो वेत्यभिमतं पक्षमुपसंहरति— विधिरिति । प्रवृत्त्यादावित्यादिपदान्निवृत्तिः । विषयसप्तमीयम् । तेन प्रवृत्तिनिवृत्तिविषय आप्ताभिप्रायो लिङर्थ इत्यर्थः । प्रवर्त्तकमिष्टसाधनताज्ञानमेव लिङर्थस्तवाप्ताभिप्रायो लाघवादिति भावः । वक्तुरभिप्रायस्य विधित्वे कुर्यामित्यादावर्थभेदमानुभविकमुपपादयति तत्रेति । स्वर्गकामो यजेतेत्यस्य स्वर्गकामकृतिसाध्यतया यागो यागयत्नो वा आप्तेष्ट इत्यर्थः । ततो यो व्यापारो यस्य कृतिसाध्यतया यद्व्यापारविषयः प्रयत्नो वा यस्यानेनेष्यते, स तस्य बलवद- निष्टाननुबन्धीष्टसाधनमिति व्याप्तिग्रहाद् यागस्येष्टसाधनत्वमनुमिनोति । तथाहि–यागो मदिष्टसाधनं मत्प्रयत्नविषयतया मदाप्तेष्यमाणत्वात्, यथा मत्पित्रा मत्प्रयत्नविषयतया इष्यमाणं भोजनं मदिष्ट- प्रकाशिका । इष्टसाधनत्वस्य वाऽभावः प्रतिपादयितुं शक्यत इत्यादिकमित्यर्थः। समास एवेति। यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या प्रयोगो दृष्टः, तथापि विरोधिवाचकत्वं समास एव, अत एवोक्तं- तदितरविरोधिपरत्वादिति । विधिर्वक्तुरित्यादिकारिकायां वक्तुरभिप्रायो विधिरभिधेय इति योजना । लाघवादिति । न चाप्तस्य विशेषणीभूतस्य शक्यत्वे विपरीतं गौरवमिति वाच्यम् । वस्तुत आप्तस्य योऽभिप्रायस्तस्याभिधेयत्वेन शक्यत्वमित्याशयात् । स्वर्गकामकृतिसाध्य- तयेति । आख्यातार्थकृतावेव लिङर्थान्वयो धात्वर्थे वेति मतभेदेन विकल्पः । इष्टसाधनत्वविधिपक्षेतोऽ मकरन्दः । समास एवेति । यद्यपि न घटः पट इत्यादौ व्यासेऽपि पर्युदासवृत्त्या तदितरपरत्वमस्त्येव, तथापि शब्दप्रकाशोक्तमनुसन्धेयम् । यागो मदिष्टसाधनमित्यनुमानं शब्दप्रकाशे विवक्षितमनुसन्धेयम्। टिप्पणी । विधिरित्यादि । नन्वेवमिष्टसाधनताज्ञानात् यागादौ कथं प्रवृत्तिरत आह अनुमेयेति । इष्टेति । द्विष्टसाधनत्वमप्येतदुपलक्षयति न कलञ्जं भक्षयेदित्यादिनिषेधवाक्यात् कलञ्जभक्षणे आप्ताभिप्रायविषयत्वाभावावगमे द्विष्टसाधनत्वस्यानुमानात् ।
५६८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां लौकिक एव वाक्ये अयं प्रकारः कदाचिद्बुद्धिमधिरोहति न तु वैदिकेषु, तेषु पुरुषस्य निरस्तत्वात् इति चेत् । न । निरासहेतोरभावात् । तदस्तित्वेऽपि प्रमाणं नास्तीति चेत् । मा भूदन्यत्, विधिरेव तावदूर्द्धं इव पुंयोगे प्रमाणं श्रुतिकुमार्याः किमत्र क्रियताम् । लिङो वा लौकिकार्थातिक्रमे य एव लौकिकास्त एव वैदिकास्त- एव चैषामर्था इति विप्लवेत । तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति भव सुस्थः। स्यादेतत् । तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं स्वतन्त्रेण वक्तृा परमेश्वरेणेति चेत् । न, तेषामनुवक्तृतयाऽभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायस्याभावात् । भावे वा न राजशासनानुवादिनोऽ- भिप्राय आज्ञा, किं नाम राज्ञ एवेति लौकिकोऽनुभवः॥ १५ ॥ श्रुतेः खल्वपि— कृत्स्न एव हि वेदोऽयं परमेश्वरगोचरः । स्वार्थद्वारैव तात्पर्यात् तस्य स्वर्गादिवद्विधौ ॥ १६ ॥ प्रकाशः । ष्टसाधनम् । न कलञ्जं भक्षयेदित्यस्य कलञ्जभक्षणं मम बलवदनिष्टसाधनं मदिष्टसाधनत्वे सत्यपि मदाप्तेन मत्प्रयत्नविषयतयाऽनिषिध्यमानत्वात् । यथा मत्पित्रा मत्प्रयत्नविषयतयाऽनिषिध्यमानं मधुवि- षसम्पृक्तान्नभोजनं ममानिष्टसाधनम् । लिङादीनां साक्षात् प्रवर्त्तकज्ञानजनकत्वे बाधकाभावान्न परम्पराजनकत्वमिति न वाच्यम् । अनन्यलभ्यस्य शब्दार्थत्वनियमे कर्त्रादेरिवान्यलभ्यत्वस्य हेतुत्वादित्यादेश्च बाधकत्वात् । त्वयाऽपि स्वकृतिसाध्येष्टसाधनतामन्तराऽनुमापयता शब्दस्य साक्षात् प्रवर्त्तकत्वानङ्गीकारा- च्चेति भावः। विधिरेवेति । नन्वेवमन्योन्याश्रयः, न वा लाघवं तात्पर्यगौरवात्, ईश्वरायनन्तकल्पना- पत्तेश्च । मैवम् । लोके आज्ञाभिप्राये लिङः शक्तिग्रहाद्वेदे परिशेषादीश्वराभिप्राये पर्यवसानात् । न तु तत्रैव शक्तिः । यथा तवैव कार्यशक्तस्य लिङादेरपूर्वे पर्यवसानम् । फलमुखञ्च गौरवं न दोषाय । शक्तिग्रहकाले सिद्धधसिद्धिपराहतत्वात्, ईश्वरे मानान्तरोपदर्शनाच्चेति भावः । एतदेवाभिप्रेत्याह य एवेति । लोकदृष्टा एव पदार्था वेदे प्रत्यभिज्ञायमानाः कथमन्य इत्यर्थः । अनर्थकत्वेति । गृहीतसङ्केतैर्लोकिकपदादन्यत्वेनागृहीतसङ्गतिकत्वादित्यर्थः । तेषामिति । उपाध्याय- वंशानामतीन्द्रियार्थज्ञानाभावात्तत्रेच्छा न सम्भवतीति शुकादीनामिव तावत्पदज्ञानात् विवक्षात्थोच्चा- रयितृत्वमात्रमित्यर्थः । स्वार्थद्वारैवेति । मुख्यार्थाबाधात्तत्रैव श्रुतेस्तात्पर्यमिति नान्यपरत्वमित्यर्थः । प्रकाशिका । चेति भावः । हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादिकारिकोक्तौ इत्यर्थः । त्वयापीति । स्वांशस्याशक्यत्वात्तद्घटितस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः । तात्पर्यगौरवादिति । मकरन्दः । हेतुत्वादित्यादेश्चेति । हेतुत्वादनुमानाच्चेत्यादेश्चेत्यर्थः । टिप्पणी । प्रथमश्लोकोक्तश्रुतेरित्यस्य व्याख्यान्तरमाह श्रुतेः खल्वपीति । स्वर्गादिवदिति । यन्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्याद्यर्थवादो यथा स्वर्गाद्यर्थप्रतिपादनद्वारा स्वर्गकामो यजेतेत्यादिविधिवाक्येन सहैकवाक्यतां प्रतिपद्यमानः
पञ्चमस्तबके ] ईश्वरसाधनम् । ५६६ न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते । तथाहि—स्रष्टृत्वेन पुरुष- सूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्च- तयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति ॥ सिद्धार्थतया न ते प्रमाणमिति चेत् । न । तद्धेतोः कारणदोषशङ्कानिरासस्य प्रकाशः । सिद्धार्थतयेति । इदमत्राभिसंहितम्-व्यवहारत एवाद्या व्युत्पत्तिरुपायान्तरस्य व्युत्पत्त्यधीन- त्वात्। तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो व्युत्पित्सुः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयव्यतिरेकानुविधानादुपस्थितत्वाच्च प्रयोज्यप्रवृत्तिमेव प्रयोजनमवधारयति । तच्च तदनुकूलव्यापारं विनाऽनुपपद्यमानं कार्यताज्ञानमेव व्यापारं कल्पयति, स्वप्रवृत्तौ तस्यैव कारणत्वनिश्चयात् । एवञ्च तत्र शब्दस्य हेतुत्वमवधार्य तत्रैव शक्तिं कल्पयति, उप- स्थितत्वात्, पश्चादावापोद्वापाभ्यां क्रियाकारकपदानां कार्यान्विततत्तदर्थेषु शक्तिं गृह्णाति प्रथमं सामान्यतस्तत्रैव शक्तिग्रहादिति कार्यान्वित एव पदानां शक्तिरिति सिद्धार्थः शब्दो न प्रमाणम् । अथाकाङ्क्षादिस्तथ्याऽपि वाक्यार्थज्ञानहेतुत्वोपगमात् तत एव कार्यपदसमभिव्याहारात् कार्य- त्वज्ञानसम्भवेनानन्यलभ्यत्वान्न कार्यांशेऽपि शक्तिः । परम्परयाऽपि शब्दस्य कार्यत्वज्ञानानुकूल- त्वादर्थापत्तेः परिक्षयात् । किञ्च कार्यत्ववाचिलिङादीनामाकाङ्क्षायुपेतपदार्थान्वितस्वार्थबोधक- त्वस्यावश्यकत्वात् पदान्तराणामपि तथात्वमस्तु लाघवात् । मैवम् । पदानां कार्यान्वितज्ञाने साक्षात्त्वस्यौत्सर्गिकत्वेन तथैव हेतुत्वस्य न्याय्यत्वात् । अन्वितपदार्थज्ञाने च हेतुत्वे परम्पराया अन्याय्यत्वात् । अर्थापत्तेः साक्षादुपपादकविषयत्वेन साक्षादुपपादके कार्यान्वितज्ञाने पदानां शक्तिकल्पनात् । लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वतर्क- स्याप्यभावात्, आद्यव्युत्पत्तेर्विचार्यत्वात् । न च कार्यवाचिलिङादीनां व्यभिचारः । कार्यत्ववि- शिष्टज्ञानजनकत्वं हि सर्वपदानाम् । तच्च कार्यान्वितस्वार्थप्रतिपादकतया इतरान्वितस्वार्थकार्यप्र- तिपादकतया वेति न कश्चिद्विशेषः । अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति । तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनेव वार्त्ता- हारेण समं चैत्रसमीपं गतः ‘चैत्र ! पुत्रस्ते जातः’—इति वार्त्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्षमनुमिनोति, हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति, उपस्थितत्वादुपपादकत्वा- दन्योपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवात् । मैवम् । हर्षहेतूनां बहूनां सम्भवात् हर्षेणापि लिङ्गेन पुत्रजन्मज्ञानस्य वालेनानुमातुमशक्य- त्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात् । अत एव विधिशेषीभूतार्थवादानां स्वर्गादि- पदशक्तिग्राहकाणाञ्च प्रवृत्तिपरत्वेन परम्परया कार्यानन्वयात् कार्यान्वितस्वार्थबोधकत्वमिति । तद्धेतोरिति । साध्यार्थानामिव सिद्धार्थानामपि वक्तृदोषनिबन्धनाप्रामाण्यनिरासादित्यर्थः । प्रकाशिका । अभिप्राये इष्टसाधनत्वे च तथासति तात्पर्यादित्यर्थः । परम्परयापीति । कार्यवाचिलिङ्पदसम- भिव्याहारादित्यर्थः । किञ्चेति । न हि तत्रापि कार्यान्वितमात्रज्ञानजनकत्वं पौनरुक्त्यापत्तेरिति भावः । साक्षात्त्वस्येति । इतरपदसमभिव्याहारानपेक्षत्वमेव साक्षात्त्वम् । अत एवेति । यत एव मकरन्दः । साक्षात्त्वस्यौत्सर्गिकत्वेनेति । यथा च कार्यान्वितव्युत्पत्त्या साक्षात् कार्यान्वितज्ञानं नान्त्रितव्युत्पत्त्या, तथा शब्दप्रकाशे अनुसन्धेयम् । टिप्पणी । तात्पर्यविषयतां लभमानः प्रामाण्यमश्नुते, तथा 'यज्ञो विष्णु'रित्यादिरपि वेदभागः स्वार्थप्रति- ७२ न्या० कु०
५७० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां भाव्यभूतार्थसाधारणत्वात्। अन्यत्रामीषां तात्पर्यमिति चेत्। स्वार्थप्रतिपादन- द्वारा, शब्दमात्रतया वा ? प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम्। तस्यार्थस्यानन्य- प्रमाणकत्वात्। अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या। तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत्। स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः। अन्यथा स्वर्ग- नरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत। तत्रावाधनात्त- थेति चेत्। तुल्यम्। न तादृगर्थः क्वचित् दृष्ट इति चेत्। स्वर्गादयोऽपि तथा। तन्मिथ्यात्वे तदर्थि- नामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्। इहापि तदुपासनाविधानानर्थक्य- प्रसङ्गः। तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपा- सीतेति तुल्यमिति॥ प्रकाशः। अन्यत्रेति। कार्ये तदन्विते च शब्दशक्तेरवधारणात् सिद्धार्थानामपि तत्रैव तात्पर्यमिति न मुख्येऽर्थे प्रामाण्यमित्यर्थः। स्वार्थेति। कार्ये तेषां तात्पर्यं किं प्रतिपाद्यमानसिद्धार्थान्वयपुरस्कारेण, किं वा स्वार्थमप्रतिपाद्येत्यर्थः। प्रथमे इति। अबाधितं पदसमन्वयलब्धमर्थमादायैव तेषां कार्यपरत्वात् स्वार्थेऽपि प्रामाण्य- मवर्जनीयमित्यर्थः। ज्योतिःशास्त्रवदिति। यथा ज्योतिःशास्त्रस्य वेदाङ्गस्य दर्शादिकालं स्वार्थमादायैव दर्शादियागविधौ तात्पर्यं, तथा सिद्धार्थवादानामपि स्वार्थं प्रतिपादयतामेव कार्ये प्रामाण्यमित्यर्थः। अन्यथेति। यदि स्वार्थमप्रतिपाद्यैवान्वयपरत्वमिति द्वितीयः कल्प इत्यर्थः। तादृश इति। वेदान्तबोध्यनित्यज्ञानादिरूप इत्यर्थः। इहापीति। ईश्वराभावे ईश्वरमुपासीतेत्यादिविधेरनर्थक्यप्र- सङ्ग इत्यर्थः। सालोक्यं-समानलोकता। सायुज्यं-सार्वज्ञ्याणिमादिकम्। आदिपदात् सारूप्यादि। अत्रापीदमभिप्रेतम्-यद्यर्थापत्त्या साक्षादुपपादक एव पदानां शक्तिः, तदा घटानयनकार्य- ताज्ञान एव पदशक्तिप्रसङ्गः, घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य घटानयनप्रवृत्त्या घटा- नयनकार्यताज्ञानस्यैवानुमानात्। न तु कार्यान्वितज्ञानस्य, प्रवृत्तिविशेषे तस्याहेतुत्वात्। अथ घटानयनक्रियायां प्रथमं क्रियात्वज्ञानात्प्रवृत्तिमात्रानुमानं, तेन च कार्यान्वितज्ञानमनु- माय तत्र वाक्यमात्रस्य कारणतां गृहीत्वा शक्तिं कल्पयति, तदुत्तरं विशेषयोः कार्यकारणभावग्रह इति चेत्। प्रकाशिका। कार्यान्वितज्ञान एव पदानां शक्तिरत एव परम्परया कार्यान्वयकल्पनमित्यर्थः। वेदान्तेति। अन्त- शब्दोऽत्र स्वरूपपरः, वेदान्तशब्द उपनिषत्परो वा। ननु सायुज्यं संयोगः, स च शरीरस्य परमेश्वरेण सर्वदैव आत्मनस्तु न कदापि, तथासति जीवन्मुक्तधर्मसालोक्यसमभिव्याहाराविशेषादित्यन्यथा व्याचष्टे सायुज्यं सार्वज्ञाणिमादिकमिति। सारूप्यादीति। गरुडगदाचक्रादीत्यन्वयः। मकरन्दः। ननु सायुज्यं संयोगः, स च परमेश्वरेण शरीरस्य सर्वदा अयत्नसिद्ध एव, आत्मनस्तु न कदापीत्यन्यथा व्याचष्टे सायुज्यमिति। टिप्पणी। पादनद्वारा 'ईश्वरमुपासीतेत्या'दिविधिवाक्येन सहैकवाक्यतामापद्यमानः तात्पर्यविषयतां सम्पद्यमानः प्रामाण्यं लभते इत्यर्थः॥ १६॥
पंचमस्तबके ] ईश्वरसोधनम् । ५७१
वाक्यादपि । संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् । तथाच यत्पद- कदम्बकं यत्संसर्गभेदप्रतिपादकं तत् तदनपेक्षतत्संसर्गज्ञानपूर्वकं, यथा लौकिकं, तथाच वैदिकमिति प्रयोगः । विपक्षे च बाधकमुक्तम् ॥ १६ ॥
प्रकाशः । न । प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं भवति क्रमेणेत्यत्र मानाभावात् । घटा- दिपदशक्तिग्रहस्य तेन विनाऽपि सम्भवात् । न च सामान्ययोः कार्यकारणभावग्रहो विशेषयोस्तथा- त्वज्ञाने हेतुरिति वाच्यम् । विशेषयोरन्वयव्यतिरेकाभ्यामेव तद्ग्रहात् । विशेषयोः कार्यकारणभावज्ञानं प्राथमिकमिति तन्मूलकः पदविशेषग्रह एव स्यात् । निष्प्रयोजनत्वेनान्तराऽनुमितौ मानाभावात् । किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वेनानुमितम्, अतस्तत्र शक्तिं गृह्णीयात्, साक्षादुपपादकविषयत्वात् कल्पनायाः । न त्विदं कार्यमिति ज्ञाने, तस्य साक्षादुपपा- दकोपपादकत्वात् । श्रयेदं कार्यमिति ज्ञानशक्त्यैव परम्परयाऽनुमानद्वारा ममेदं कार्यमिति ज्ञानसम्भ- वादन्यलभ्यत्वे न तत्र शक्तिकल्पनमिति तुल्यम् । अपि च-अस्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात् कारणतावबोधात्तत्र शक्तिग्रहः, तथा- प्यावापोद्वापाभ्यां पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति, लाघवात् । न तु कार्यांशे, गौरवादन्यलभ्यत्वाच्च । अन्यथासिद्धिमपश्यतो हि बालस्य पूर्वं तत्सम्भवेऽपि पश्चाद्गौरवान्यलभ्य- त्वतर्कसहकृतमानेन तद्बाधोचिता । न च प्रवृत्तिहेतुतयोपस्थितं कार्यान्वितज्ञानं हित्वा कल्पयित्वाऽन्वितज्ञानं तत्र शक्तिकल्पनम- युक्तमुभयथा गौरवादिति वाच्यम् । कार्यान्वितज्ञानेऽन्वितज्ञानस्यापि सत्त्वात्, तद्विशेषत्वात्तस्य । तथात्वेऽपि तदुपस्थितावन्वितज्ञानत्वं न विषय इति तदुपस्थित्यन्तरं कल्प्यमिति चेत् । न कार्या- न्वितज्ञाने अन्वितज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात्, विशिष्टज्ञानस्य विशेष्यवि- षयत्वनियमात् । अन्यथा अन्यजातिज्ञानमन्यच्च जातिविशिष्टव्यक्तिज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोपस्थितमिति न क्व जातिरेव पदार्थः स्यात् । यच्च हर्षहेतूनां बहूनां सम्भवादित्युक्तम् । तन्न, स्वतो गृहीतहर्षहेतुस्तनपानादेर्धावताराद- न्यस्य हर्षहेतोरग्रहात् । अत उपस्थितत्वादुपपादकत्वाच्च पुत्रजन्मज्ञानमेव हर्षहेतुतया कल्पयति । न चान्यदपि प्रियं हर्षहेतुर्भविष्यतीति शङ्कया कथमेवमिति वाच्यम् । कार्यान्वितज्ञानेऽपि शक्तिग्र- हानापत्तेः । प्रयोज्यज्ञानहेतूनां बहुत्वात् । अनन्यथासिद्धशब्दार्थविधानश्च तुल्यमिति संक्षेपः । यत्पदकदम्बकमिति । एतद्वेदवाक्यसमानकालोत्पत्तिकज्ञानाजन्यमिदं वेदवाक्यं समा- नविषयकज्ञानजन्यं वाक्यत्वात् लौकिकवाक्यवदित्यत्र तात्पर्यम्। विपक्षे चेति ॥ १६॥
प्रकाशिका । एतद्वेदवाक्यसमानकालोत्पत्तिकेति । अत्र समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकालएव विवक्षितः, स च पैतृकस्य जनकत्वासम्भवेन तदादायाभन्तरशङ्कानवतारात् । एवमध्याप कादिज्ञानजन्यत्वेनार्थान्तरवारणाय जन्यान्तरं पक्षविशेषणम् । अत्र च समानविषयत्वं ज्ञानविशेषणम् अन्यथा तात्पर्यादिज्ञानजन्यत्वेन विशेपणासिद्धेः । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदाद्युच्चरितवेदे पक्षतावच्छेदकासिद्धिरिति वाच्यम्। तद्भिन्नस्यैव पक्षत्वादिति भावः । यद्यपि सोत्पत्तिकज्ञानाजन्य-
मकरन्दः । एतद्वेदवाक्येति । समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकाल एव विवक्षितः । समानकालोत्पत्तिकस्य जनकत्वासम्भवेन तदादायार्थान्तरादिशङ्काऽनवकाशात् । एवमध्यापकादि- ज्ञानजन्यत्वेनार्थान्तरवारणायाजन्यान्तम् । न चैवमप्यसिद्धिः तादृशपदज्ञानादिजन्यत्वादिति वाच्यम् । समानविषयत्वेनापि ज्ञानविशेषणात् । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदादिनेवोच्चरिते इदानीन्तनवेदे दोषतादवस्थ्यमिति वाच्यम् । तद्भिन्नवेदस्यैव पक्षत्वादित्याहुः । यद्यपि सोत्पत्ति-
५७२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १७ कारिकाव्याख्यायां सङ्ख्याविशेषादपि— स्यामभूवं भविष्यामीत्यादिसङ्ख्यया च वक्तृगा । समाख्याऽपि न शाखानामाद्यप्रवचनादृते ॥ १७ ॥ कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते । तथाह्युत्तम- पुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् । अस्ति च तत्प्रयोगः प्रायशो वेदे । ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽन्वयप्रसङ्गात् । अथवा—समाख्याविशेषः सङ्ख्याविशेष उच्यते । काठकं कालापकमित्या- दयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्य्यन्ते । ते च न प्रवचनमात्रनि- बन्धनाः प्रवक्तॄणामनन्तत्वात् । नापि प्रकृष्टवचननिमित्ताः । उपाध्यायेभ्योऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात् । तत्पाठानुक॑रणे च प्रकर्षाभावात् । कतिचनादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति । नाप्याद्यस्य वक्तुः समाख्येति युक्तम् । भवद्भिरस्तदनभ्युपगमात् । अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा विप्रतिपत्तिः । स्यादेतत्, ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः । तदध्येया तद- नुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् । न । क्षत्रिया- प्रकाशः। पुरुषगुणाभावे तज्जन्यप्राशोभनवर्णोच्चारयितृत्वं प्रकर्षः, तत्राह कति चेति । न च ब्राह्मणत्वव्याप्यं प्रकाशिका। त्वविशेषणादेव पक्षधर्म्मतावलेनाजन्यज्ञानसिद्धिस्तथाप्यकालोत्पत्तिकस्य जनकत्वशङ्कैव नेति स्वरूप- निर्वचनपरं समानकालोत्पत्तिविशेषणम् । न चार्थानभिज्ञोक्तवाक्ये व्यभिचारः, प्रमाणस्य तस्य पक्षसमत्वात्, अप्रमाणस्य च प्रमाणवाक्यात्मकत्वहेतुविरहात्, उत्तमपुरुषत्वात् प्रमाणोत्तमपुरुषादि- त्यर्थः, अन्यथा शुकोक्तप्रमाणोत्तमपुरुषे व्यभिचारात्, प्रमाणतद्वाक्यस्य च पक्षसमत्वमेवेत्यर्थः। वक्तरीति । यद्यपि वक्तॄण्ववक्त्रोर्भैदादनुवक्त्रा नार्थान्तरशङ्का तथापि वक्तृत्वं वचनकर्तृत्वमात्रं तच्च तत्रापीति युक्तं स्वातन्त्र्यविशेषणमिति भावः ॥१६॥ कतिच्चेति। तथा च पुनरप्यनियमप्रसङ्ग- मकरन्दः। कतादृशज्ञानाजन्यत्वविशेषणादेव पक्षधर्मतावलादजन्यज्ञानसिद्धाविष्टसिद्धिः, तथाप्यन्यकालोत्पत्ति- कस्य जनकत्वशङ्कैव नेति स्वरूपतानिवर्चनपरं तदिति मन्तव्यम् । न च शुकादिवाक्ये व्यभिचारः, तस्यापि पक्षसमत्वादिति भावः । (१) वक्तरीति । न च वक्तृत्वानुवक्तृत्वयोर्भैदादनुवक्ता न वक्तेति न तद्विशेषणमर्थवदिति वाच्यम् । वक्तृत्वं हि वचनकर्तृत्वं, तच्च तत्रापि । आगन्तुकेति ! तथा च कठादिशरीरमधिष्ठा- याद्यवक्तुरीश्वरस्यैव तत्तत्समाख्याविशेषे निबन्धनत्वमिति भावः ॥ १६ ॥ टिप्पणी। द्व्यणुकपरिमाणजनकसंख्याजनकापेक्षाबुद्ध्याश्रयतया ईश्वरः सिध्यतीति पूर्ववृत्तं स्मारयन्नाह कार्यतयेति । संख्याविशेषशब्दस्यार्थान्तरमाह समाख्यापीति । प्रवक्तृवचननिमित्त एवेति । एवं चातीन्द्रियार्थदर्शी परमकारुणिको भगवानवे अस्मदाद्यदृष्टाकृष्टकठादिशरीरमधिष्ठाय यां यां शाखां प्रावोचत् तत्तच्छाखानां तत्तन्नाम्ना व्यपदेश इति भावः । ( १ ) प्रकाशिकामकरन्दयोर्गृहीतस्यैतत्प्रतीकस्य 'आमन्तु कस्येति' मकरन्दे समुपलब्धस्य च प्रकाशप्रतीकस्य व्याख्येयः 'एतद्द्वेदवाक्यसमाने'त्यादित ऊर्ध्वं 'व्यवस्थाव्यतिरेकश्चे'त्यतः पूर्वं कश्चिदंशो प्रकाशस्यादर्शपुस्तके भ्रष्ट इति प्रतिभाति । विशेषस्तु भूमिकायां द्रष्टव्यः । सं० ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५७३ देरपि तत्रैवाधिकारात् । न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति । न च क्षत्रियादेरन्यो वेद इत्यस्ति । न च कठाः काठकमेवाधीयते तदर्थमेवानु- तिष्ठन्तीति नियमः, शाखासञ्चारस्यापि प्रायशो दर्शनात् । प्रागेवायं नियम आसीदिदानीमयं विप्लवते इति चेत् । विप्लव एव तर्हि सर्वदा, कठाद्यवान्तर- जातिविप्लवादित्यगतिरेवेयम् । तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्या- विशेषसम्बन्ध इत्येव साध्विति ॥ स एवं भगवान् श्रुतोऽनुमितश्च, कैश्चित् साक्षादपि दृश्यते प्रमेयत्वाद्धटवत् ॥ ननु तत्सामग्रीरहितः कथं द्रष्टव्यः । सा हि बहिरिन्द्रियगर्भा मनोगर्भा वा तत्र न सम्भवति । चक्षुरादेर्नियतविषयत्वात् । मनसो बहिरस्वातन्त्र्यात् । तदुक्तं 'हेत्व- प्रकाशः । कठत्वादिक्षत्रिये सम्भवतीत्याह न चेति । ननु क्षत्रियाद्यधीयमानाऽपि शाखा कठादिपदवाच्येत्यत आह न च कठा इति । प्रागेवायमिति । पूर्वं कठैः स्वशाखैवाधीता, अधुना शाखान्तराध्ययनरूपो विप्लव इत्यर्थः । विप्लव एवेति । कठत्वादिशाखाव्याप्यजातिविप्लवः कठादिसमाख्याव्यवस्था- व्यतिरेकश्चेत्यर्थः । तस्मादिति । कठादिशरीरमधिष्ठाय सर्गादावीश्वरेण या शाखा कृता, सा तत्समाख्येति परिशेष इत्यर्थः । अत्र अनित्यज्ञानवद्वक्तृकवाक्यावाचकानि श्रौतकठपदादीनि किञ्चित्प्रवक्तृकवाक्यवाचकानि वाक्यवाचकपदत्वात् मन्वादिसंहितापदवदिति मानमभिप्रेतम् । इयता प्रबन्धेन मननरूपो प्रतिज्ञातामुपासनां निर्वाह्य न तावन्मात्रान्मोक्षोऽनुमितिरूपविशेपद- र्शनस्य प्रत्यक्षभ्रमानुच्छेदकत्वात्, अपि तु प्रत्यक्षरूपं तत्तद्धेतुरिति दर्शयितुमाह — स एवमिति । अत्र प्रत्यक्षसामग्रीमुपाधिमाह नन्विति । सामग्र्या अतीन्द्रियतया योग्या- नुपलम्भेन निषेधोऽपास्तः । न च तस्याः कार्यव्यङ्ग्यतया तदभावादेवाभाव इति वाच्यम् । कार्य- स्यापि पुरुषान्तरप्रत्यक्षज्ञानत्वेन योग्यव्यतिरेकत्वात् । साधनव्यापकत्या स नोपाधिरित्याह प्रकाशिका । स्तदवस्थ एवेति भावः । पूर्वं कठैरिति । तथा च पूर्वकालीनमेव कठत्वादिजातिमद्ब्राह्मणाध्य- यनं शाखायाः कठादिसमाख्यानियामकमस्तीत्यर्थः । कठत्वादिशाखाव्याप्येति । पूर्वशब्दस्या- ननुगतत्वेन सर्गाद्यत्वमेव तदर्थः, स च न भवताप्युपेयत इत्यनियमस्तदवस्थ एवेति भावः । अनित्यज्ञानवदिति । तन्मतेऽवक्तृकतया अस्य ज्ञानवक्तृकतया च पक्षतावच्छेदकसिद्धिः । न चास्मदाद्युच्चरितवेदवाचकत्या कठादिसमाख्यायाः पक्षतावच्छेदकासिद्धिरिति वाच्यम् । अनित्य- ज्ञानवत्क्रियामात्रवाचकत्वस्य विशेषणत्वादिति भावः । किञ्चित्प्रवक्तृकेति । स्वातन्त्र्यम् प्रशब्दार्थ इति नाध्यापकेनार्थान्तरमिति ध्येयम् ॥ १७-२० ॥ मकरन्दः । व्यवस्थाव्यतिरेक इति । नियमगर्भस्योक्तनियामकस्यासिद्धेरिति भावः । अनित्यज्ञानवदिति । तन्मते अपौरुषेयत्वादस्मन्मते नित्यज्ञानवद्वक्तृकत्वादुभयसिद्धविशे- षणमिति चोध्यम् । शेषं सुगमम् ॥ १७-२० ॥ इति महामहोपाध्यायदेवदत्तात्मजश्रीरुचिदत्तोपाध्यायविरचितः मकरन्दः समाप्तः ॥
५७४ व्याख्यात्रयोपेतप्रकाशायुते न्यायकुसुमाञ्जलौ [ १७ कारिकान्याख्यायां भावे फलाभावादित्यादि। न कार्यैकव्यङ्ग्यायाः सामग्र्या निषेद्धुमशक्यत्वात्। अपि च दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षा- त्कारः स्वप्ने। न च स्मृतिरेवासौ पटीयसी। स्मरामि स्मृतं वेति स्वप्नानुस- न्धानाभावात्। पश्यामि दृष्टमित्यनुव्यवसायात्। न चारोपितं तत्रानुभवत्वम्। अबाधनात्। अननुभूतस्यापि स्वशिरश्छेदनादेरवभासनाच्च। स्मृतिविपर्यासोऽसाविति चेत्। यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽ- नुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति, तदा प्रागेव निरस्तः। न च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसी- यते। तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति। न ह्ययं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्त्तव्यः। अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वं, संवादात्। तच्च काकता- लीयमपि न निर्निमित्तम्। सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात्। हेतुश्चात्र धर्म एव। स च कर्म्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोग- क्षेमत्वात्। तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलं, धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति। अतस्तत्सामग्रीविर- होऽसिद्धः। तथापि विपक्षे किं बाधकमिति चेत्। 'द्वे ब्रह्मणो वेदितव्ये' इत्यादियोगविधि- वैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात्। न चासाक्षात्कारिज्ञानविधानमे- तत्। अर्थज्ञानावधिनाऽध्ययनविधिनेव तस्य गतार्थत्वात् इति। एतेन परमाण्वा- दयो व्याख्याता इति। तदेनमेवम्भूतम् अधिकृत्य श्रूयते - 'न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति। 'एकमे- वादितीय' मिति। 'पश्यत्यचक्षुः स शृणोत्यकर्ण' इति। 'द्वे ब्रह्मणो वेदितव्ये पर- प्रकाशः। कार्य्यैकेति। अथ प्रत्यक्षहेतुयावद्विशेषाभावादयोग्याया अपि सामग्र्या अभाव उन्नेयः। तन्न यथा स्वप्नज्ञाने सहकारिविशेषान्मनसो वहिः स्वातन्त्र्यं, तथा प्रकृतेऽपि योगजधर्मात्तस्य तथात्व- मित्यह। अपि चेति। पटीयस्त्वम्-असन्दिग्धविषयत्वम्। स्मृतिविपर्यासः-विपर्य्यस्ता स्मृतिः, प्रागेवेति। अनुभवत्वस्याबाधनादित्यर्थः। न च सम्भवत्यपि इत्यत्र स्मृतावुनभवत्वविपर्यास इत्यनुषञ्जनीयम्। यदि स घट इति स्मृतावुनभवत्वारोपः, तदा तं घटमनुभवामीति स्यात्, न तु इमं घटमनुभवामीत्याह न हीति। ननु प्रमायामेव मनसो वहिःस्वातन्त्र्यं स्वप्नज्ञानं त्वप्रमा इत्यत आह अस्ति चेति। तथापि साक्षात्कारो भ्रमो वासनाप्रभवत्वात् कामातुरकामिनीसाक्षा- त्कारवदित्याशङ्क्य तत्प्रमात्वमुपपादयति स चेति। अर्थज्ञानावधिनेति। स्वाध्यायोऽध्येतव्य इति विधेः परिशेषादर्थज्ञानफलसिद्धावर्थज्ञानावधित्वं सिद्धमिति भावः। एतेनेति। परमाण्वादयोऽपि प्रमेयत्वात् प्रत्यक्षा इत्यर्थः। एकमेवेति। ईश्वराख्यं ब्रह्म एकमेव न द्वितीयमित्यर्थः। तदर्थमित्यनेन ईश्वरज्ञानार्थतां प्रकाशिका। धीरा धरणिभवानी यमजनि चन्द्राद् भगीरथं तनयम्। तस्य कृतावेतस्यां सन्तः सन्तोषमाचरत ॥
पंचमस्तवके ] ईश्वरसाधनम् । ३७५ आपरमेष्ठ चे' ति । 'यज्ञेन यज्ञमयजन्त देवा' इति । 'यज्ञा वै देवा' इति । 'यज्ञो वै विष्णु'रित्यादि । स्मर्यते च— सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । इति । मदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर । इति । यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । इति । यज्ञायाचरतः कर्म समग्रं प्रविलीयते । इत्यादि । अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् । तमिमंज्योतिष्टोमादिभिरिष्टैः प्रासादादिना पूत्र्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषा- दिभिर्नियमैः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति । तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् । यत्रेदं गीयते-- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ १७ ॥ इति । इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमार्दधासि हृदये ते शैलसाराशयाः । किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक, त्वयैव कृपया ते भावनीया नराः ॥ १८ ॥ प्रकाशः । कर्मणो दर्शयता न ज्ञानकर्मणोस्तुल्यकक्षतया समुच्चय इत्यभिप्रेतम् । अनुशिष्यते, उपदिश्यते इत्यर्थः । ईश्वरोऽवश्यं ज्ञेयो महर्षीणामपि तज्ज्ञानान्वितत्वादित्याह तमिममिति । ईश्वरवेदनस्य फल- माह तस्मिन्निति । मयि परमेश्वरे मनः संयुज्येत्यर्थः । योगजेश्वरसाक्षात्कारस्य फलमाह शान्ति- मृच्छतीति । मोक्षं प्राप्नोतीत्यर्थः ॥ १७ ॥ यस्त्वेवं निर्दोषन्यायावगमितं कुतर्काभ्यासान्न प्रत्येति, तं प्रत्याह— इत्येवमिति । इतिशब्दः स्वरूपार्थः । एवंशब्दश्च प्रकारार्थः । नीतिर्न्यायः । शैलसारः पाषाणं, लौहं वा, तद्वदाशयो येषां ते तथा, युक्तिप्रतिसन्धानानाश्रयहृदया इत्यर्थः । प्रस्तुते ईश्वरे, विप्रतीपविधयः प्रतिकूलप्रकाराः, तादृशा अप्युच्चैरत्यर्थं काले कदाचित् भवच्चिन्तका इति योजना । भावनीया वासनीयाः शङ्काकलङ्कशून्याः कर्त्तव्या इत्यर्थः । प्रकाशिका । आसीदनुपमः कोऽपि महादेवः कुलाग्रणीः । टिप्पणी । सर्वधर्मानिति । अत्र धर्मपदमधर्मस्याप्युपलक्षणम् 'नाविरतो दुश्चरितान्नाशान्तो नासमाहित' इत्यादिश्रुतेः, 'त्यजधर्ममधर्मं चे'त्यादिस्मृतेश्च, धर्माधर्मावनादृत्य मां परमात्मानमेकं शरणं प्राप्नुहि मदेकशरणो भवेत्यर्थः । अहं त्वा त्वां सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि अतो माशुचः मा शोकं कार्षीरित्यर्थः । प्रासादादीति । भगवन्मन्दिरादीत्यर्थः । ॥ १७-१९ ॥ इत्येष इत्यादि । इतिः समाप्तौ । एष उज्ज्वलश्रीः न्यायकुसुमाञ्जलिः दक्षिणवामकौ सज्जन- दुर्जनौ यद् वासयेत् अनुरञ्जयेत्, अन्योऽपि कुसुमाञ्जलिः दक्षिणवामनासापुटे अनुरञ्जयति ।
५७६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [१८-२० कारिकाव्याख्यायां अस्माकन्तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयी- त्यद्धाऽऽनन्दनिधे ! तथापि तरलं नाद्यापि सन्तृप्यते । तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां याते चेतसि नाप्नुयाम शतशो याम्याः पुनर्यातनाः ॥१९॥ इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री- र्यद्वासयेदपि च दक्षिणवामकौ द्वौ । नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पितेन ॥ २० ॥ इति श्रीन्यायाचार्यपदाङ्कितमहामहोपाध्यायश्रीमदुदयनविरचितं न्यायकुसुमाञ्जलिप्रकरणं समाप्तम् ॥ प्रकाशः । अस्माकं त्वश्रद्धा नास्तीत्याह । अस्माकंत्विति । यद्यपि त्वयि चेतो निमग्नमित्यद्धा तत्त्वम्, तथापि तरलं मनो नाद्यापि सन्तृप्यते तृप्तं भवति । तृपेः क्वचित् सकर्मकत्वात् कर्मकर्त्तरि रूपम् । त्वदेकाग्रतां त्वत्प्रवणताम् । याम्या यमदेवताकाः । यातना नरकपीड़ाः ॥ १९ ॥ इत्येष इति । इतिः समाप्तौ । एष नीतिकुसुमाञ्जलिर्दक्षिणवामकौ द्वौ यदि वासयेत् , ततः किमस्माकम् । यद्वा यद्वासयेदित्यत्र प्रोक्त एव यदि ब्रूयात् माऽस्मान् वासयतीति, तं प्रत्याह नो वा इति । वासयेदित्यनेन सम्बन्धः । ततः किं । तद्वासनायाः फलं न किञ्चिदित्यर्थः । पदमेव पीठं, तत्र न्यायकुसुमाञ्जलेर्यत् समर्पणं, तेन भगवान् प्रीतोऽस्तु ॥ २० ॥ यस्तर्कतन्त्रशतपत्रसहस्ररश्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं प्रकाशयत्कृतिमुदे बुधवर्द्धमानः ॥ इति महामहोपाध्यायश्रीवर्द्धमानविरचितो न्यायकुसुमाञ्जलिप्रकाशः समाप्तः ॥ प्रकाशिका । अनुजस्तस्य कृतवानिमां व्याख्यां भगीरथः ॥ इति महामहोपाध्याय मेघठक्कुरापरनामकश्रीभगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां पञ्चमः स्तवकः ॥ इति कुसुमाञ्जलिप्रकाशिका समाप्ता । टिप्पणी कुतर्काभ्यासमलिनान्तःकरणं कथं वासयिष्यतीत्यत आह नो वेति । अपिच किंवा, नो वासयेत्, ततः किमस्माकं किन्तु अमरेश इन्द्रस्तस्य गुरुर्बृहस्पतिर्ब्रह्मा वा, तस्य गुरुः उपदेष्टा परमेश्वरः, पदमेव पीठं तत्र समर्पणं यस्य, तादृशेनानेन न्यायकुसुमाञ्जलिना प्रसन्नोऽस्त्वित्यर्थः ॥२०॥ इति मिथिलादेशालङ्कारसर्वतन्त्रस्वतन्त्रश्रीविद्याभागुरुचरणसेवनसमुपजातविद्येन दरभङ्गामण्ड- लान्तर्गतसीमाग्रामनिवासिना काशीहिन्दूविश्वविद्यालयदर्शनविभागाध्यक्षेण मैथिलेन लक्ष्मीनाथझाशर्मणा कृता न्यायकुसुमाञ्जलेः चतुःस्तबकपर्यन्तगुरूकृतटिप्पणी- तोऽवशिष्टपञ्चमस्तबकमात्रस्य टिप्पणी समाप्ता । साम्बशिवायर्पणमस्तु ।