न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 601, कुल 608 में से
संदर्भ में पढ़ेंपञ्चमस्तबके ] ईश्वरसाधनम् । ५६६ न सन्त्येव हि वेदभागा यत्र परमेश्वरो न गीयते । तथाहि—स्रष्टृत्वेन पुरुष- सूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रपञ्चं पुरस्कृत्य निष्प्रपञ्च- तयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति ॥ सिद्धार्थतया न ते प्रमाणमिति चेत् । न । तद्धेतोः कारणदोषशङ्कानिरासस्य प्रकाशः । सिद्धार्थतयेति । इदमत्राभिसंहितम्-व्यवहारत एवाद्या व्युत्पत्तिरुपायान्तरस्य व्युत्पत्त्यधीन- त्वात्। तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो व्युत्पित्सुः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयव्यतिरेकानुविधानादुपस्थितत्वाच्च प्रयोज्यप्रवृत्तिमेव प्रयोजनमवधारयति । तच्च तदनुकूलव्यापारं विनाऽनुपपद्यमानं कार्यताज्ञानमेव व्यापारं कल्पयति, स्वप्रवृत्तौ तस्यैव कारणत्वनिश्चयात् । एवञ्च तत्र शब्दस्य हेतुत्वमवधार्य तत्रैव शक्तिं कल्पयति, उप- स्थितत्वात्, पश्चादावापोद्वापाभ्यां क्रियाकारकपदानां कार्यान्विततत्तदर्थेषु शक्तिं गृह्णाति प्रथमं सामान्यतस्तत्रैव शक्तिग्रहादिति कार्यान्वित एव पदानां शक्तिरिति सिद्धार्थः शब्दो न प्रमाणम् । अथाकाङ्क्षादिस्तथ्याऽपि वाक्यार्थज्ञानहेतुत्वोपगमात् तत एव कार्यपदसमभिव्याहारात् कार्य- त्वज्ञानसम्भवेनानन्यलभ्यत्वान्न कार्यांशेऽपि शक्तिः । परम्परयाऽपि शब्दस्य कार्यत्वज्ञानानुकूल- त्वादर्थापत्तेः परिक्षयात् । किञ्च कार्यत्ववाचिलिङादीनामाकाङ्क्षायुपेतपदार्थान्वितस्वार्थबोधक- त्वस्यावश्यकत्वात् पदान्तराणामपि तथात्वमस्तु लाघवात् । मैवम् । पदानां कार्यान्वितज्ञाने साक्षात्त्वस्यौत्सर्गिकत्वेन तथैव हेतुत्वस्य न्याय्यत्वात् । अन्वितपदार्थज्ञाने च हेतुत्वे परम्पराया अन्याय्यत्वात् । अर्थापत्तेः साक्षादुपपादकविषयत्वेन साक्षादुपपादके कार्यान्वितज्ञाने पदानां शक्तिकल्पनात् । लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वतर्क- स्याप्यभावात्, आद्यव्युत्पत्तेर्विचार्यत्वात् । न च कार्यवाचिलिङादीनां व्यभिचारः । कार्यत्ववि- शिष्टज्ञानजनकत्वं हि सर्वपदानाम् । तच्च कार्यान्वितस्वार्थप्रतिपादकतया इतरान्वितस्वार्थकार्यप्र- तिपादकतया वेति न कश्चिद्विशेषः । अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति । तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनेव वार्त्ता- हारेण समं चैत्रसमीपं गतः ‘चैत्र ! पुत्रस्ते जातः’—इति वार्त्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्षमनुमिनोति, हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति, उपस्थितत्वादुपपादकत्वा- दन्योपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवात् । मैवम् । हर्षहेतूनां बहूनां सम्भवात् हर्षेणापि लिङ्गेन पुत्रजन्मज्ञानस्य वालेनानुमातुमशक्य- त्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात् । अत एव विधिशेषीभूतार्थवादानां स्वर्गादि- पदशक्तिग्राहकाणाञ्च प्रवृत्तिपरत्वेन परम्परया कार्यानन्वयात् कार्यान्वितस्वार्थबोधकत्वमिति । तद्धेतोरिति । साध्यार्थानामिव सिद्धार्थानामपि वक्तृदोषनिबन्धनाप्रामाण्यनिरासादित्यर्थः । प्रकाशिका । अभिप्राये इष्टसाधनत्वे च तथासति तात्पर्यादित्यर्थः । परम्परयापीति । कार्यवाचिलिङ्पदसम- भिव्याहारादित्यर्थः । किञ्चेति । न हि तत्रापि कार्यान्वितमात्रज्ञानजनकत्वं पौनरुक्त्यापत्तेरिति भावः । साक्षात्त्वस्येति । इतरपदसमभिव्याहारानपेक्षत्वमेव साक्षात्त्वम् । अत एवेति । यत एव मकरन्दः । साक्षात्त्वस्यौत्सर्गिकत्वेनेति । यथा च कार्यान्वितव्युत्पत्त्या साक्षात् कार्यान्वितज्ञानं नान्त्रितव्युत्पत्त्या, तथा शब्दप्रकाशे अनुसन्धेयम् । टिप्पणी । तात्पर्यविषयतां लभमानः प्रामाण्यमश्नुते, तथा 'यज्ञो विष्णु'रित्यादिरपि वेदभागः स्वार्थप्रति- ७२ न्या० कु०