न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 602, कुल 608 में से
संदर्भ में पढ़ें५७० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां भाव्यभूतार्थसाधारणत्वात्। अन्यत्रामीषां तात्पर्यमिति चेत्। स्वार्थप्रतिपादन- द्वारा, शब्दमात्रतया वा ? प्रथमे स्वार्थेऽपि प्रामाण्यमेषितव्यम्। तस्यार्थस्यानन्य- प्रमाणकत्वात्। अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या। तत्प्रतिपादकत्वेऽपि न तत्र तात्पर्यमिति चेत्। स्वार्थापरित्यागे ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः। अन्यथा स्वर्ग- नरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत। तत्रावाधनात्त- थेति चेत्। तुल्यम्। न तादृगर्थः क्वचित् दृष्ट इति चेत्। स्वर्गादयोऽपि तथा। तन्मिथ्यात्वे तदर्थि- नामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्। इहापि तदुपासनाविधानानर्थक्य- प्रसङ्गः। तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपा- सीतेति तुल्यमिति॥ प्रकाशः। अन्यत्रेति। कार्ये तदन्विते च शब्दशक्तेरवधारणात् सिद्धार्थानामपि तत्रैव तात्पर्यमिति न मुख्येऽर्थे प्रामाण्यमित्यर्थः। स्वार्थेति। कार्ये तेषां तात्पर्यं किं प्रतिपाद्यमानसिद्धार्थान्वयपुरस्कारेण, किं वा स्वार्थमप्रतिपाद्येत्यर्थः। प्रथमे इति। अबाधितं पदसमन्वयलब्धमर्थमादायैव तेषां कार्यपरत्वात् स्वार्थेऽपि प्रामाण्य- मवर्जनीयमित्यर्थः। ज्योतिःशास्त्रवदिति। यथा ज्योतिःशास्त्रस्य वेदाङ्गस्य दर्शादिकालं स्वार्थमादायैव दर्शादियागविधौ तात्पर्यं, तथा सिद्धार्थवादानामपि स्वार्थं प्रतिपादयतामेव कार्ये प्रामाण्यमित्यर्थः। अन्यथेति। यदि स्वार्थमप्रतिपाद्यैवान्वयपरत्वमिति द्वितीयः कल्प इत्यर्थः। तादृश इति। वेदान्तबोध्यनित्यज्ञानादिरूप इत्यर्थः। इहापीति। ईश्वराभावे ईश्वरमुपासीतेत्यादिविधेरनर्थक्यप्र- सङ्ग इत्यर्थः। सालोक्यं-समानलोकता। सायुज्यं-सार्वज्ञ्याणिमादिकम्। आदिपदात् सारूप्यादि। अत्रापीदमभिप्रेतम्-यद्यर्थापत्त्या साक्षादुपपादक एव पदानां शक्तिः, तदा घटानयनकार्य- ताज्ञान एव पदशक्तिप्रसङ्गः, घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य घटानयनप्रवृत्त्या घटा- नयनकार्यताज्ञानस्यैवानुमानात्। न तु कार्यान्वितज्ञानस्य, प्रवृत्तिविशेषे तस्याहेतुत्वात्। अथ घटानयनक्रियायां प्रथमं क्रियात्वज्ञानात्प्रवृत्तिमात्रानुमानं, तेन च कार्यान्वितज्ञानमनु- माय तत्र वाक्यमात्रस्य कारणतां गृहीत्वा शक्तिं कल्पयति, तदुत्तरं विशेषयोः कार्यकारणभावग्रह इति चेत्। प्रकाशिका। कार्यान्वितज्ञान एव पदानां शक्तिरत एव परम्परया कार्यान्वयकल्पनमित्यर्थः। वेदान्तेति। अन्त- शब्दोऽत्र स्वरूपपरः, वेदान्तशब्द उपनिषत्परो वा। ननु सायुज्यं संयोगः, स च शरीरस्य परमेश्वरेण सर्वदैव आत्मनस्तु न कदापि, तथासति जीवन्मुक्तधर्मसालोक्यसमभिव्याहाराविशेषादित्यन्यथा व्याचष्टे सायुज्यं सार्वज्ञाणिमादिकमिति। सारूप्यादीति। गरुडगदाचक्रादीत्यन्वयः। मकरन्दः। ननु सायुज्यं संयोगः, स च परमेश्वरेण शरीरस्य सर्वदा अयत्नसिद्ध एव, आत्मनस्तु न कदापीत्यन्यथा व्याचष्टे सायुज्यमिति। टिप्पणी। पादनद्वारा 'ईश्वरमुपासीतेत्या'दिविधिवाक्येन सहैकवाक्यतामापद्यमानः तात्पर्यविषयतां सम्पद्यमानः प्रामाण्यं लभते इत्यर्थः॥ १६॥