भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 603, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 603

पंचमस्तबके ] ईश्वरसोधनम् । ५७१

वाक्यादपि । संसर्गभेदप्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् । तथाच यत्पद- कदम्बकं यत्संसर्गभेदप्रतिपादकं तत् तदनपेक्षतत्संसर्गज्ञानपूर्वकं, यथा लौकिकं, तथाच वैदिकमिति प्रयोगः । विपक्षे च बाधकमुक्तम् ॥ १६ ॥

प्रकाशः । न । प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं भवति क्रमेणेत्यत्र मानाभावात् । घटा- दिपदशक्तिग्रहस्य तेन विनाऽपि सम्भवात् । न च सामान्ययोः कार्यकारणभावग्रहो विशेषयोस्तथा- त्वज्ञाने हेतुरिति वाच्यम् । विशेषयोरन्वयव्यतिरेकाभ्यामेव तद्ग्रहात् । विशेषयोः कार्यकारणभावज्ञानं प्राथमिकमिति तन्मूलकः पदविशेषग्रह एव स्यात् । निष्प्रयोजनत्वेनान्तराऽनुमितौ मानाभावात् । किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वेनानुमितम्, अतस्तत्र शक्तिं गृह्णीयात्, साक्षादुपपादकविषयत्वात् कल्पनायाः । न त्विदं कार्यमिति ज्ञाने, तस्य साक्षादुपपा- दकोपपादकत्वात् । श्रयेदं कार्यमिति ज्ञानशक्त्यैव परम्परयाऽनुमानद्वारा ममेदं कार्यमिति ज्ञानसम्भ- वादन्यलभ्यत्वे न तत्र शक्तिकल्पनमिति तुल्यम् । अपि च-अस्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात् कारणतावबोधात्तत्र शक्तिग्रहः, तथा- प्यावापोद्वापाभ्यां पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति, लाघवात् । न तु कार्यांशे, गौरवादन्यलभ्यत्वाच्च । अन्यथासिद्धिमपश्यतो हि बालस्य पूर्वं तत्सम्भवेऽपि पश्चाद्गौरवान्यलभ्य- त्वतर्कसहकृतमानेन तद्बाधोचिता । न च प्रवृत्तिहेतुतयोपस्थितं कार्यान्वितज्ञानं हित्वा कल्पयित्वाऽन्वितज्ञानं तत्र शक्तिकल्पनम- युक्तमुभयथा गौरवादिति वाच्यम् । कार्यान्वितज्ञानेऽन्वितज्ञानस्यापि सत्त्वात्, तद्विशेषत्वात्तस्य । तथात्वेऽपि तदुपस्थितावन्वितज्ञानत्वं न विषय इति तदुपस्थित्यन्तरं कल्प्यमिति चेत् । न कार्या- न्वितज्ञाने अन्वितज्ञानं विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात्, विशिष्टज्ञानस्य विशेष्यवि- षयत्वनियमात् । अन्यथा अन्यजातिज्ञानमन्यच्च जातिविशिष्टव्यक्तिज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोपस्थितमिति न क्व जातिरेव पदार्थः स्यात् । यच्च हर्षहेतूनां बहूनां सम्भवादित्युक्तम् । तन्न, स्वतो गृहीतहर्षहेतुस्तनपानादेर्धावताराद- न्यस्य हर्षहेतोरग्रहात् । अत उपस्थितत्वादुपपादकत्वाच्च पुत्रजन्मज्ञानमेव हर्षहेतुतया कल्पयति । न चान्यदपि प्रियं हर्षहेतुर्भविष्यतीति शङ्कया कथमेवमिति वाच्यम् । कार्यान्वितज्ञानेऽपि शक्तिग्र- हानापत्तेः । प्रयोज्यज्ञानहेतूनां बहुत्वात् । अनन्यथासिद्धशब्दार्थविधानश्च तुल्यमिति संक्षेपः । यत्पदकदम्बकमिति । एतद्वेदवाक्यसमानकालोत्पत्तिकज्ञानाजन्यमिदं वेदवाक्यं समा- नविषयकज्ञानजन्यं वाक्यत्वात् लौकिकवाक्यवदित्यत्र तात्पर्यम्। विपक्षे चेति ॥ १६॥

प्रकाशिका । एतद्वेदवाक्यसमानकालोत्पत्ति‍केति । अत्र समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकालएव विवक्षितः, स च पैतृकस्य जनकत्वासम्भवेन तदादायाभन्तरशङ्कानवतारात् । एवमध्याप कादिज्ञानजन्यत्वेनार्थान्तरवारणाय जन्यान्तरं पक्षविशेषणम् । अत्र च समानविषयत्वं ज्ञानविशेषणम् अन्यथा तात्पर्यादिज्ञानजन्यत्वेन विशेपणासिद्धेः । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदाद्युच्चरितवेदे पक्षतावच्छेदकासिद्धिरिति वाच्यम्। तद्भिन्नस्यैव पक्षत्वादिति भावः । यद्यपि सोत्पत्तिकज्ञानाजन्य-

मकरन्दः । एतद्वेदवाक्येति । समानकालपदेन स्थूलकालोपाधेर्विवक्षणात् पूर्वकाल एव विवक्षितः । समानकालोत्पत्तिकस्य जनकत्वासम्भवेन तदादायार्थान्तरादिशङ्काऽनवकाशात् । एवमध्यापकादि- ज्ञानजन्यत्वेनार्थान्तरवारणायाजन्यान्तम् । न चैवमप्यसिद्धिः तादृशपदज्ञानादिजन्यत्वादिति वाच्यम् । समानविषयत्वेनापि ज्ञानविशेषणात् । न चैवमपि वाक्यार्थं ज्ञात्वा अस्मदादिनेवोच्चरिते इदानीन्तनवेदे दोषतादवस्थ्यमिति वाच्यम् । तद्भिन्नवेदस्यैव पक्षत्वादित्याहुः । यद्यपि सोत्पत्ति-