न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 597, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके ] ईश्वरसाधनम् । ५६५ तत्र सद्भावात् । हननकारणकमदृष्टं नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्त्त- येदेवेति साधु शास्त्रार्थः । अहननेनापूर्वं भावयेदिति त्वशक्यम् । कारणस्याना- दित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तद्विषयत्वात् । अहननसङ्क- ल्पेनेति यावज्जीवमविच्छिन्नतत्सङ्कल्पः स्यात् । सकृत् कृत्वैव वा निवृत्तिः । पश्चा- द्धन्त्यादेवाविरोधात् । सम्पादितो ह्यनेन नियोगार्थः । यावद् यावद्धनन सङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वादित्यपि वार्त्तम् । तदश्रुतेः । प्रसक्तं हि प्रति- षिध्यते नाप्रसक्तमिति चेत् । न वै किञ्चिदिह प्रतिषिध्यते । तदभावः प्रतिपाद्यते इति निषेधार्थः । हननकरणकमपूर्वं वाक्यार्थः ॥ किञ्च न हन्यादिति अहननेनापूर्वस्य कर्त्तव्यताप्रत्ययो जातो वेदात् , जातश्च हननक्रियायां रागात् । निष्फलाच्च कार्यादपेक्षितफलं गरीय इति न्यायेन हन्यादे- वेत्यहो वेदव्याख्याकौशलमास्तिकाभिमानिनो मीमांसकदुर्दुरूढस्य । प्रकाशः । निरातङ्कमिति । अत्र किं सुकृतापूर्वस्य निषेधः, दुरितापूर्वस्य वा ? आद्ये धर्मानुत्पादेऽप्यध- र्मोत्पादकमानाभावाददृष्टफलार्थी हनने प्रवर्त्तेत । अन्त्ये च सुतरां प्रवृत्तिः स्यादित्यर्थः । अथ नञ्- धात्वर्थान्वयः, तत्राह अहननेति । कारणस्येति । हननप्रागभावस्यानादित्वादनाद्यपूर्वं स्यादित्यर्थः । ननु हननप्रागभावविषया भावनाऽपूर्वमुत्पादयिष्यतीत्यत आह भावनायाश्चेति । प्रागभावस्तदा भावनाविषयः स्यात् , यदि तत्स्वरूपं भावनासाध्यं स्यात् , न चैवमित्यर्थः । सङ्कल्पविधिपक्षे निषेधानुपपत्तिमाह अहननेति । सर्वदा किमह play? किमहनन सङ्कल्पेनापूर्वं भावये- दित्यर्थः, यदा कदाचिद्वा ? आद्ये, यावज्जीवमिति । अन्त्ये, सकृदिति । नियोगार्थो विध्यर्थः । विपरीतेति । अहननसङ्कल्पेनेत्यर्थः । तथाभूतस्येति । प्रवृत्तिमत्त एव निषेधापूर्वेऽधिकारादित्यर्थः । तदश्रुतेरिति । हनन सङ्कल्पवतो विपरीतसङ्कल्पकत्वाश्रुतेरित्यर्थः । ननु प्रसक्तं हननं निषेध्यं, प्रसङ्गश्च तत्करणसङ्कल्प एव, इच्छाया एवाद्यप्रवृत्तित्वादित्यश्रुतमपि तल्लभ्यते इत्याह प्रसक्त- मिति । नात्र हननं निषिध्यते, किन्तु हननाभावसङ्कल्पकारणकमपूर्वं विधीयते इत्याह न वै किञ्चिदिति । किञ्चेति । अपूर्ववाच्यत्वेऽपि 'न कलञ्जं भक्षयेदि'त्यादितः कलञ्जभक्षणाभावविषयकमपूर्वमव- गम्यापि तदभावे न प्रवर्त्तेत । तथाहि कलञ्जभक्षणे रागादस्य कर्त्तव्यता बुद्धिर्जाता, शब्दाच्च भक्ष- णाभावे । निःफलाच्च कार्यात् सफलं गरीय इति न्यायेन सुखहेतौ भक्षण एव प्रवर्त्तेत, न तदभावे, तस्य निःफलत्वात् । न च निषेधापूर्वमेव फलं तस्य सुखदुःखाभावान्यतया षण्डत्वेन तदजनकतया च गौणमुख्यप्रयोजनत्वाभावात् । प्रकाशिका । मेव शब्दधर्मस्यार्थभावनानुरूपेऽभावादिति मतान्तरमेवेदमर्थनिष्ठाभिधेति भावः । संकल्पविधिपक्षे इति । सङ्कल्पेति लिङर्थान्वयपक्ष इत्यर्थः । तेन नाग्रेतनविकल्पविरोध इत्यवधेयम् । यावज्जीवमिति । न च तत्सम्भवति सुषुप्त्याद्याद्यनुपपत्तेरिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगेऽधिकारात् प्रवृ- त्तिश्चप्रसङ्गो न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः । मकरन्दः । यावज्जीवमिति । न च तत्सम्भवति, सुषुप्त्यादिदशायां तद्विच्छेदादिति भावः । ननु प्रवृत्तिमतो निवृत्तिनियोगाधिकारात् प्रसङ्गः प्रवृत्तिः न तु सङ्कल्प इत्यत आह इच्छाया एवेति । आद्या प्रवृत्तिरिच्छैवेत्यभिधानादिति भावः ।