न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 606, कुल 608 में से
संदर्भ में पढ़ें५७४ व्याख्यात्रयोपेतप्रकाशायुते न्यायकुसुमाञ्जलौ [ १७ कारिकान्याख्यायां भावे फलाभावादित्यादि। न कार्यैकव्यङ्ग्यायाः सामग्र्या निषेद्धुमशक्यत्वात्। अपि च दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षा- त्कारः स्वप्ने। न च स्मृतिरेवासौ पटीयसी। स्मरामि स्मृतं वेति स्वप्नानुस- न्धानाभावात्। पश्यामि दृष्टमित्यनुव्यवसायात्। न चारोपितं तत्रानुभवत्वम्। अबाधनात्। अननुभूतस्यापि स्वशिरश्छेदनादेरवभासनाच्च। स्मृतिविपर्यासोऽसाविति चेत्। यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽ- नुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति, तदा प्रागेव निरस्तः। न च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसी- यते। तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति। न ह्ययं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्त्तव्यः। अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वं, संवादात्। तच्च काकता- लीयमपि न निर्निमित्तम्। सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात्। हेतुश्चात्र धर्म एव। स च कर्म्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोग- क्षेमत्वात्। तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलं, धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति। अतस्तत्सामग्रीविर- होऽसिद्धः। तथापि विपक्षे किं बाधकमिति चेत्। 'द्वे ब्रह्मणो वेदितव्ये' इत्यादियोगविधि- वैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात्। न चासाक्षात्कारिज्ञानविधानमे- तत्। अर्थज्ञानावधिनाऽध्ययनविधिनेव तस्य गतार्थत्वात् इति। एतेन परमाण्वा- दयो व्याख्याता इति। तदेनमेवम्भूतम् अधिकृत्य श्रूयते - 'न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति। 'एकमे- वादितीय' मिति। 'पश्यत्यचक्षुः स शृणोत्यकर्ण' इति। 'द्वे ब्रह्मणो वेदितव्ये पर- प्रकाशः। कार्य्यैकेति। अथ प्रत्यक्षहेतुयावद्विशेषाभावादयोग्याया अपि सामग्र्या अभाव उन्नेयः। तन्न यथा स्वप्नज्ञाने सहकारिविशेषान्मनसो वहिः स्वातन्त्र्यं, तथा प्रकृतेऽपि योगजधर्मात्तस्य तथात्व- मित्यह। अपि चेति। पटीयस्त्वम्-असन्दिग्धविषयत्वम्। स्मृतिविपर्यासः-विपर्य्यस्ता स्मृतिः, प्रागेवेति। अनुभवत्वस्याबाधनादित्यर्थः। न च सम्भवत्यपि इत्यत्र स्मृतावुनभवत्वविपर्यास इत्यनुषञ्जनीयम्। यदि स घट इति स्मृतावुनभवत्वारोपः, तदा तं घटमनुभवामीति स्यात्, न तु इमं घटमनुभवामीत्याह न हीति। ननु प्रमायामेव मनसो वहिःस्वातन्त्र्यं स्वप्नज्ञानं त्वप्रमा इत्यत आह अस्ति चेति। तथापि साक्षात्कारो भ्रमो वासनाप्रभवत्वात् कामातुरकामिनीसाक्षा- त्कारवदित्याशङ्क्य तत्प्रमात्वमुपपादयति स चेति। अर्थज्ञानावधिनेति। स्वाध्यायोऽध्येतव्य इति विधेः परिशेषादर्थज्ञानफलसिद्धावर्थज्ञानावधित्वं सिद्धमिति भावः। एतेनेति। परमाण्वादयोऽपि प्रमेयत्वात् प्रत्यक्षा इत्यर्थः। एकमेवेति। ईश्वराख्यं ब्रह्म एकमेव न द्वितीयमित्यर्थः। तदर्थमित्यनेन ईश्वरज्ञानार्थतां प्रकाशिका। धीरा धरणिभवानी यमजनि चन्द्राद् भगीरथं तनयम्। तस्य कृतावेतस्यां सन्तः सन्तोषमाचरत ॥