न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 607, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके ] ईश्वरसाधनम् । ३७५ आपरमेष्ठ चे' ति । 'यज्ञेन यज्ञमयजन्त देवा' इति । 'यज्ञा वै देवा' इति । 'यज्ञो वै विष्णु'रित्यादि । स्मर्यते च— सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । इति । मदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर । इति । यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । इति । यज्ञायाचरतः कर्म समग्रं प्रविलीयते । इत्यादि । अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् । तमिमंज्योतिष्टोमादिभिरिष्टैः प्रासादादिना पूत्र्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषा- दिभिर्नियमैः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति । तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् । यत्रेदं गीयते-- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ १७ ॥ इति । इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमार्दधासि हृदये ते शैलसाराशयाः । किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक, त्वयैव कृपया ते भावनीया नराः ॥ १८ ॥ प्रकाशः । कर्मणो दर्शयता न ज्ञानकर्मणोस्तुल्यकक्षतया समुच्चय इत्यभिप्रेतम् । अनुशिष्यते, उपदिश्यते इत्यर्थः । ईश्वरोऽवश्यं ज्ञेयो महर्षीणामपि तज्ज्ञानान्वितत्वादित्याह तमिममिति । ईश्वरवेदनस्य फल- माह तस्मिन्निति । मयि परमेश्वरे मनः संयुज्येत्यर्थः । योगजेश्वरसाक्षात्कारस्य फलमाह शान्ति- मृच्छतीति । मोक्षं प्राप्नोतीत्यर्थः ॥ १७ ॥ यस्त्वेवं निर्दोषन्यायावगमितं कुतर्काभ्यासान्न प्रत्येति, तं प्रत्याह— इत्येवमिति । इतिशब्दः स्वरूपार्थः । एवंशब्दश्च प्रकारार्थः । नीतिर्न्यायः । शैलसारः पाषाणं, लौहं वा, तद्वदाशयो येषां ते तथा, युक्तिप्रतिसन्धानानाश्रयहृदया इत्यर्थः । प्रस्तुते ईश्वरे, विप्रतीपविधयः प्रतिकूलप्रकाराः, तादृशा अप्युच्चैरत्यर्थं काले कदाचित् भवच्चिन्तका इति योजना । भावनीया वासनीयाः शङ्काकलङ्कशून्याः कर्त्तव्या इत्यर्थः । प्रकाशिका । आसीदनुपमः कोऽपि महादेवः कुलाग्रणीः । टिप्पणी । सर्वधर्मानिति । अत्र धर्मपदमधर्मस्याप्युपलक्षणम् 'नाविरतो दुश्चरितान्नाशान्तो नासमाहित' इत्यादिश्रुतेः, 'त्यजधर्ममधर्मं चे'त्यादिस्मृतेश्च, धर्माधर्मावनादृत्य मां परमात्मानमेकं शरणं प्राप्नुहि मदेकशरणो भवेत्यर्थः । अहं त्वा त्वां सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि अतो माशुचः मा शोकं कार्षीरित्यर्थः । प्रासादादीति । भगवन्मन्दिरादीत्यर्थः । ॥ १७-१९ ॥ इत्येष इत्यादि । इतिः समाप्तौ । एष उज्ज्वलश्रीः न्यायकुसुमाञ्जलिः दक्षिणवामकौ सज्जन- दुर्जनौ यद् वासयेत् अनुरञ्जयेत्, अन्योऽपि कुसुमाञ्जलिः दक्षिणवामनासापुटे अनुरञ्जयति ।