न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 69, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] , न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् । ३७ प्रकाशिका योगीति पक्षविशेषणम् । आदिपदग्राह्यन्तु ध्वंसत्वादि, तस्य जन्याभावत्वरूपतया जन्यत्वस्य च प्रागभावगर्भतया तादृशप्रतीतिविषयत्वात् । प्रागभावघटान्योन्याभावाविति समूहालम्बनविषया- न्योन्याभावप्रतियोगितया सिद्धसाधनमिति तद्धारणाय नञ्द्वयगर्भता प्रागभावतत्प्रतियोगित्वाभ्यां सिद्धसाधनवारणाय प्रतियोगित्वप्रागभावान्येत्यविषयविशेषणम् । न च कार्यत्वावच्छिन्नप्रतियोगि- कान्योन्याभावमादाय सिद्धसाधनम् । तस्यापि प्रमेयत्वादिना ज्ञाने तादृशप्रतीतिविषयत्वात् । अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य च प्रागभावगर्भतया ध्वंसप्रतियोगितया सिद्ध- साधनमिति निरस्तम् । प्रमेयत्वादिना ध्वंसस्यापि तादृशप्रतीतिविषयत्वात् । ननु प्रतियोगित्वमत्र स्वरूपसम्बन्धविशेषः। नच प्रतियोगित्वस्य कार्यं प्रतियोगि किन्त्वाश्रयः, तथा च प्रतियोगित्वान्येति विशेषणं व्यर्थम् । न च प्रतियोगित्वमत्र सम्बन्धित्वमात्रम् । तथासति प्रागभावत्वत्वेनापि समं कार्यस्य परम्परासम्बन्धोऽस्त्येवेति तदादाय सिद्धसाधनाऽऽपत्तेः । न च स्वरूपसम्बन्धित्वं प्रतियोगि- गित्वम् । प्रकृते परम्परासम्बन्धस्यापि स्वरूपसम्बन्धत्वात् । संयोगसमवायान्यासम्बन्धस्यैव स्व- रूपसम्बन्धत्वात् । परम्परासम्बन्धान्यत्वस्यापि स्वरूपसम्बन्धलक्षणे विशेषणत्वे परम्परासम्ब- न्धस्य सर्वत्र सत्त्वेनासम्भवापत्तेः । न च साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमत्र, प्रकृते च घटस्य कारणतेति प्रतीतिबलादस्त्येव घटस्य कारणतया साक्षात्सम्बन्धित्वमिति वाच्यम् । तथा सति प्रागभावान्यत्वाश्रयत्वलक्षणोपाध्याश्रयत्वेन सिद्धसाधनापत्तेः । न च तदन्यत्वमप्यविषयविशेषणं मकरन्दः । र्शनात् । धर्मिणस्तु दण्डादेः प्रागभावाविषयप्रतीतिविषयत्वात् । साधनञ्च न तथा, तस्य प्राग- भावगर्भतया प्रमेयत्वादिनाऽपिग्रहे प्रागभावविषयत्वनियमादिति प्रागभावविषयप्रतीतिविषयप्रति- योगित्वे साध्ये सिद्धसाधनं, कार्य्यस्य घटादेः प्रागभावघटान्योन्याभावाविति समूहालम्बनविषया- न्योन्याभावप्रतियोगित्वादिति नञ्द्वयम् । प्रागभावतत्प्रतियोगित्वाभ्यां तादृशप्रतीतिविषयाभ्यां सिद्धसाधनवारणार्थं प्रतियोगित्वप्रागभावान्येति तादृशप्रतीत्यविषयविशेषणम् । प्रागभावप्रतियो- गित्वप्रागभावान्येत्यर्थः । कैश्चित्तु सामान्यत्वेन विशेषोऽपि वारित इति यथाश्रुतेऽप्यदोष इत्याहुः । न च कार्यान्योन्या- भावमादाय सिद्धसाधनम् । तस्य कार्य्यत्वावच्छिन्नप्रतियोगितया कार्य्यत्वस्य च प्रागभावप्रतियोगि- त्वरूपतया तादृशप्रतीत्यविषयत्वादिति वाच्यम् । अनेन हि रूपेणाभावग्रहे प्रतियोगितावच्छेदकग्रह- ध्रौव्यं, न त्वन्यथापीति प्रकारान्तरेण तद्ग्रहे प्रागभावाविषयप्रतीतिविषयत्वात् । अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य प्रागभावगर्भतया तत्प्रतियोगित्वेन सिद्धसाधनमपास्तम् । ध्वंसस्य प्रका- रान्तरेण तादृशबुद्धिविषयत्वात् । ध्वंसत्वस्य तादृशप्रतीत्यविषयत्वेऽपि कार्य्यस्य तदप्रतियोगित्वात् । तदिदमुक्तं, प्रागभावत्वाद्यप्रतियोगीति । तथा च बाधान्न ध्वंसत्वप्रागभावत्वादिप्रतियोगित्वेनार्था- न्तरमिति बाधस्फोरणाय पक्षविशेषणमिति मन्तव्यम् । ननु प्रागभावत्वादेरिव प्रागभावप्रतियोगित्वस्यापि न प्रतियोगि कार्यं, किन्त्वाश्रयः । तथाच तमादाय सिद्धसाधनानवकाशात्तदन्यत्वं विशेषणमयुक्तम् । न हि प्रतियोगित्वं सम्बन्धित्वमात्रं वि- वक्षितम् । तथा सति परम्परासम्बन्धेन प्रागभावत्वादेरपि तथात्वात्तदन्यत्वमपि साध्यविशेषणं टिप्पणी । प्रागभावान्यत्वाश्रयत्वादिकमादाय सिद्धसाधनवारणाय तत्तद्भिन्नत्वोपलक्षकमन्यत्वान्तम् । कार्य- त्वावच्छिन्नात्यन्ताभावस्याखण्डस्य प्रमेयत्वतद्घटित्वादिना प्रतीतौ प्रागभावस्याविषयत्वेन तमा- दाय तु न सिद्धसाधनम् । वस्तुतोऽविषयत्वान्तं स्वप्रतियोगिकान्यथासिद्धान्यवृत्तिनियतपूर्ववर्ति-