न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 70, कुल 608 में से
संदर्भ में पढ़ें३८ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां प्रकाशः । विषयप्रतियोगि, न वा ? यद्वा, कार्य्यप्रतियोगित्वं प्रतियोगित्वप्रागभावान्यप्रागभावाविषयबुद्ध्य- विषयवृत्ति न वा ? द्वयोरपि प्रागभावत्वे प्रसिद्धिः । यद्वा, कार्य्यपूर्ववर्त्तिनि तन्नियतत्वं वर्त्तते न प्रकाशिका । तथापि पूर्ववर्त्तित्वादिकं कारणताघटकमादाय सिद्धसाधनादिति । अत्र तत्तदन्यत्वमपि विशेषण- मिति केचित् । तत्पूर्ववर्त्तित्वमात्रमेवैतद्विप्रतिपत्तिजन्यविचारात्सिध्यति नियतत्वादिकञ्चाग्रिम- विप्रतिपत्तिमूलकविचारादेवेत्यन्ये । वस्तुतो नियतत्वे पूर्ववर्त्तित्वे च विप्रतिपत्तिरेव नास्ति किन्तु नियतपूर्ववर्त्तित्वस्य घटेन समं स्वरूपसम्बन्धविशेषे सा । अत एव स्वरूपसम्बन्धविशेष एव कारणतेति प्रामाणिकाः । तथा च प्रतीत्यविषयपर्यन्तपदेन नियतपूर्ववर्त्तित्वमेवोक्तं प्रतियोगि- त्वञ्च स्वरूपसम्बन्धविशेष एवेति नोक्तदोषावकाशः । न चैवमप्यन्यथासिद्धिविरहासिद्धिः । स्वप्र- तियोगिकान्यथासिद्धिभिन्नवृत्तिनियतपूर्ववर्त्तित्वप्रतियोगित्वस्य विधिकोटित्वात् । स्वं चरमप्रतियो- गिपदार्थः । प्रसिद्धिश्च नियतपूर्ववर्त्तित्वात्यन्ताभाव इति । कार्यप्रतियोगित्वमिति । अत्रापि प्रागभावत्वाद्यवृत्तीति विशेषणं बाधस्फोरणाय । यद्यपि पूर्वविप्रतिपत्तौ कार्यत्वस्य प्रतियोगित्वमभि- मतमत्र तु कारणतायाः, तथापि स्वरूपसम्बन्धविशेष एव प्रतियोगित्वमत्र तच्चोभयनिरूप्यमेवे- त्यविरोध इति भावः । व्याख्या तु पूर्ववदेव । द्वयोरपीति । यद्यपि प्रथमविप्रतिपत्तिविधिकोटे- स्तादृशप्रागभावत्वत्वाश्रयप्रागभावत्वे प्रसिद्धिरिति युक्तं, द्वितीयविधिकोटेस्तु कथं प्रागभावत्वे, तस्य प्रागभावत्वावृत्तित्वात् प्रागभावस्य च प्रागभावान्यत्वाभावात् । तथापि प्रागभावत्व इति सप्तमी न साक्षादधिकरणतायां किन्तु साक्षात्परम्परासाधारणाधिकरणमात्रे तथा च प्रागभावत्वत्वे द्वि- तीयविधिकोटिप्रसिद्धावपि परम्परया प्रागभावत्वस्याधिकरणत्वं सम्भवत्येव । केचित्तु प्रागभावत्व- मकरन्दः । स्यात् । पक्षविशेषणं चासिद्धं स्यात् । तथाच स्वरूपसम्बन्धविशेषो वाच्यः । स च तत्र नास्ति । किञ्च कारणतया समं स्वरूपसम्बन्धविशेषोऽन्यः प्रागभावादिना च समं कार्यस्यान्यः स इति श- ब्दमात्रसाम्यादनुमानप्रवृत्तिः । न च स्वरूपसम्बन्धत्वेनैवानुगम इति वाच्यम् । तस्य परम्परास- म्बन्धसाधारण्येनोक्तदोषानिवृत्तेः । न च तत्र परम्परासम्बन्धस्यैव सत्त्वात् सम्बन्धान्तरमन्तरेणे- त्यादिरूपं तन्न तत्रेति वाच्यम् । तस्य संयोगसमवायौ विनेत्यर्थात् । अन्यथा परम्परासम्बन्धस्य सर्वत्र सत्त्वादसम्भवापत्तेरिति चेन्न । साक्षात् सम्बन्धित्वस्य विवक्षितत्वात् । न च कारणतया समं कार्यकारणद्वारक एव सम्बन्धस्तथा च बाध इति वाच्यम् । घटाभाव इत्यत्रेव घटकारणतेत्य- त्रापि साक्षात्स्वरूपसम्बन्धानुभवात् । एवञ्च यद्यपि कारणताभिन्नं तादृशं प्रागभावगर्भं पूर्ववर्त्ति- त्वादिकं नानाधर्ममादायार्थान्तरं सिद्धसाधनं वा भवेत्येव । तथापि तत्तदन्यत्वेनापि तादृशप्रतीति- विषयो विशेषणीय इति युक्तमुत्पश्यामः । कार्यप्रतियोगित्वमिति । यद्यपि पूर्वेण कार्यस्य संप्रतियोगित्वमभिप्रेतमनेन च कारण- तायाः, तथापि साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमभिप्रेतं तच्चोभयनिरूपितत्वमुभयत्र तुल्यमि- त्यविरोध इति भावः । अत एव प्रगभावादिद्वृत्तित्वेन नार्थान्तरशङ्का, कार्यसाक्षात्सम्बन्धित्वस्य तत्र बाधात् । अन्यच्च पूर्ववत् । द्वयोरपीति । ननु प्रथमविप्रतिपत्तौ प्रागभावत्वमादाय प्रसिद्धि- टिप्पणी । स्वपरमेव । प्रसिद्धिश्च तादृशपूर्ववर्त्तित्वात्यन्ताभावे । एतेन घटस्य कारणत्वमित्यादिप्रतीति- सिद्धस्य प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकस्य प्रागभावादेरभावादन्यत्वान्तं व्यर्थमिति शङ्का परास्ता । द्वयोरपि प्रागभावत्वे प्रसिद्धिरिति । द्वयोर्घटकं यद्विषयत्वान्तं तस्य प्रागभा-