न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 71, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] न्यायाङ्गसंशयवीजविप्रतिपत्तिनिरूपणम् । ३६ प्रकाशः । वा ? यद्वा, तज्जातीयोत्पत्तिप्राक्क्षणत्वप्रतियोगिव्यापकतावच्छेदकत्वमत्यन्ताभावप्रतियोगिवृत्ति न वा ? । प्रकाशिका । पदेन प्रागभाववृत्तिधर्म उक्तः, स च प्रागभावत्वं प्रमेयत्वं चेति यथासंख्यं प्रथमद्वितीयविधिकोटि- प्रसिद्धिरिति वदन्ति । यद्वा द्वयोरपि विप्रतिपत्त्योर्विषयपदान्तार्थस्य प्रागभावत्वे प्रसिद्धिरित्यर्थः । तथाच तत्प्रतियोगिनि प्रागभावे तद्वृत्तौ च प्रागभावत्वत्वे प्रसिद्धिरिति भावः । वस्तुतः कार्यपदं तद्विशेषघटादिपरं तथा च विधिकोटिरपि तत्प्रागभावान्यत्वगर्भा एवं च तादृशपटादिप्रागभाव- वृत्तितया प्रागभावत्वे प्रसिद्धिः सुलभवैति दिक् । कार्येति । अनन्यथासिद्धकार्यनियतपूर्ववर्ति- नीत्यर्थः, विशिष्टाप्रसिद्धावपि खण्डशः प्रसिद्धिः सुलभैवेति भावः । एकमेकजातीयं वा कारण- मित्यत्र संशयमाह यद्वेति । तज्जातीयोत्पत्तिप्राक्क्षणत्वं यत्र, तत्र ब्रह्माधिकरणत्वं प्रधानाधिक- रणत्वं वेत्यस्यां व्यापकतायां ब्रह्म प्रधानं वा निरूपकतावच्छेदकं तदुभयञ्च नित्यतया व्यापक- तया च नात्यन्ताभावप्रतियोगीति निषेधकोटिः । परेषां दण्डादीनां कारणतया विशिष्टप्राक्क्षणत्व- व्यापकाधिकरणताप्रतियोगितया विधिकोटिर्नैयायिकानां यद्यपि ब्रह्मणोऽप्यत्यन्ताभावप्रतियोगित्वम्। तथापि कालिकदैशिकविशेषणतासम्बन्धावच्छिन्नत्वमत्यन्ताभावविशेषणमिति । मिश्राणामवतारिका व्याख्या च वस्तुतो भवतु सा कारणता तथापि न सा व्यतिरेकिधर्मवृत्त्तिरिति नाहष्टाधिष्ठातृतया परमेश्वरसिद्धिरिति तस्या व्यतिरेकिवृत्तित्वसाधनाय विप्रतिपत्तिमाह । यद्वेति । यदा तदव्यव- हितप्राक्क्षणत्वं तदा स्वतो व्यापारतो वा दण्ड इति दण्डस्य व्यापकता, तदवच्छेदकं च तदाश्रय- मकरन्दः । सम्भवेऽपि द्वितीयायामसंभवः, न हि प्रागभावत्वस्य प्रागभावत्वे वृत्तिरपि तु प्रागभाव एव स च न प्रागभावान्य इति चेत् । प्रागभावत्वपदेन प्रागभावत्वत्वस्य विवक्षितत्वात् । तस्य च तादृ- शबुद्धयविषये प्रागभावत्वे वृत्तैः । तत्प्रतियोगित्वाच्चेत्येके । प्रागभावत्वपदेन प्रागभावधर्मः प्रमे- यत्वादिविवक्षित इत्यन्ये । यत्तु व्यासज्जयप्रतियोगिकाभावाश्रयणे प्रतियोगिताप्रागभावान्यः केवलः प्रागभावोऽपीति तद्वृत्तित्वेन यथाश्रुतमेव सम्यगिति । तत्तुच्छम् । प्रागभावमादाय सिद्धसाधनस्यैवमपरिहारात् । तथा च तदन्यत्वविशेषणं व्यर्थमापद्येत । वस्तुतस्तु कार्यपदं तद्विशेषपटादिपरम् । तथाच तत्प्रा- गभावतद्प्रागभावप्रतियोगित्वान्यप्रागभावाविषयप्रतीत्यविषयपटादिप्रागभाववृत्तित्वादिना प्रागभा- वत्वे प्रसिद्धिरिति यथाश्रुतमेव सम्यगिति । कार्येति । अनन्यथासिद्धकार्यपूर्ववर्त्तिनीत्यर्थः । विशिष्टस्याप्रसिद्धत्वेऽपि खण्डशः प्रसिद्भे- रिति भावः । एवं ब्रह्मैव कारणमेकजातीयं प्रधानं वेत्यत्र संशयमाह । यद्वेति । तज्जातीयोत्प- त्तिप्राक्क्षणत्वं यन्न, तत्र ब्रह्माधिकरणत्वं प्रधानाधिकरणत्वं वेत्यत्र व्यापकीभूताऽधिकरणत्वेऽव- च्छेदकं विशेषणीभूतं ब्रह्मैव प्रधानं वा नात्यन्ताभावप्रतियोगि व्यापकनित्यत्वादिति निषेधकोटिः परेषां, विधिकोटिरस्माकम्। अत्यन्ताभावप्रतियोगिनो दण्डादेरपि तादृशत्वाभ्युपगमादिति बोध्यम्। यद्यपि व्यापकनित्यत्वेऽप्याकाशवदत्यन्ताभावप्रतियोगित्वं ब्रह्मादेरविरुद्धं, तथापि तद्वद्वृत्तित्वान- भ्युपगमात् प्रत्युत सकलदेशकालवृत्तित्वादित्यवसेयम् । टिप्पणी । वत्वे प्रसिद्धिः, तथा च प्रथमे तादृशप्रागभावत्वमादाय प्रतियोगित्वस्य निरूपकत्वरूपस्याश्रयविधया प्रागेव प्रसिद्धिः । द्वितीये प्रागभावत्वमादाय वृत्तित्वस्य प्रागभावत्वत्वे प्रसिद्धिरिति । यद्वा सप्तम्य-