न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 85, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ५१ हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनम्, अविशेषात् । भवनप्रतिषेधे प्रागिव पश्चादप्यभवनम्, अविशेषात् । उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभु- त्वेन स्वस्मादिति पक्षानुपपत्तेः । पौर्वापर्य्यनियमश्च कार्यकारणभावः । न बोधनी । तदेतदनिष्टप्रसङ्गप्रदर्शनमुखेन विवृणोति—हेतुप्रतिषेध इति । सर्वदा भवनम्=सत्त्वम् । स्यादिति शेषः । विपर्ययस्तु दृश्यत इति भावः । एतेनैतन्निरस्तं यदाहुः— कार्यत्वं कारणत्वं च सम्बन्धः सोऽसतां कुतः । सच्चैत् कारणवैयर्थ्यमसच्चेन्न चरिस्थितिः ॥ १॥ तथा—कुर्वत् कार्यमकुर्वद्वा कारणं कारणं भवेत् । कुर्वच्चेदनवस्थानमकुर्वत्यनवस्थितिः ॥ इति । पश्चादप्यभवनम्=असत्त्वम् । स्यादिति शेषः । अभवनाविशेषादुत्पत्त्यभावस्य पूर्वापर- कालयोरविशेषादिति । एतेनैतन्निरस्तं यदाहुः— न चेदुत्पत्तिरुत्पत्तेर्नित्यत्वमनवस्थितिः । उत्पत्ताचित्यतः कार्यं कारणं चानिरूपितम् ॥ उत्पत्तेरिति । न ह्यसतः प्रभुत्वं, नापि स्वस्य प्रभुत्वमिति । नन्वेकस्यैव कार्यकारण- भावे को दोषस्तत्राह—पौर्वापर्य्य-इति । चो हेत्वर्थः । यस्मात् पौर्वापर्य्यनियमतः कार्यकारण- प्रकाशः । दित्यर्थः । क्रमेण तर्कमेवाह । हेत्विति । भवनस्य सत्त्वस्याविशेषात् सदातनत्वे कार्य्यस्य कादा- चित्कत्वव्याघात इत्यर्थः । भवनेति । भवनस्योत्पत्तेः सदा प्रतिषेधे प्राक् पश्चादिव मध्येऽप्यभ- वनप्रसङ्गात् कदाचिद्द्भवनग्राहिप्रत्यक्षबाध इत्यर्थः । उत्पत्तेरिति । स्वोत्पत्तेः पूर्वं यदि स्वं भवेत् तदा नियतकालोत्पत्तौ हेतुः स्यात् । न चैवम् । असतोऽपि हेतुत्वे प्राक् पश्चादपि कार्य्यसत्त्वप्र- सङ्गेन तदनुपलब्धिविरोध इत्यर्थः । कार्यकारणयोरभेदे विरोधान्तरमाह । पौर्वापर्य्यमिति । पटा- प्रकाशिका । ख्यात आह । सत्त्वस्येति । पश्चादप्यभवनमित्यत्रेष्टापत्तिः, घटोत्पत्तिकालस्यैव पूर्वतानिरूपक- त्वेनोपस्थित्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदा चाभवनस्यानुत्पत्तेः सत्त्वादित्यन्यथा व्या- मकरन्दः । श्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधभवनमुत्पत्तिरूपमसम्भवत्यत आह । सत्त्वस्येति । अकारणकत्वेऽपीति । अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशतद्वृ- टिप्पणी । इति शेषः । भवनस्य सत्त्वस्याविशेषादिति । हेतुं विना उत्पत्तेरसम्भवाद् भवनस्य सत्त्वमर्थः । सदा प्रतिषेधे प्राक्पश्चाद्विवेति । घटोत्पत्तिकालस्यैव पूर्वतानिरूपकत्वेनोपस्थि- त्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदाऽभवनस्य सत्त्वादिष्टापत्तेरतः प्रागित्यादिमूलमन्यथा व्याचष्टे प्रागिति । स्वोत्पत्तेः पूर्वमिति । नियमानन्यथासिद्धत्वे आपादकविशेषणे तेनापाद्या- पादकव्याप्तेर्न भङ्गः । न चैवमिति । अत्र व्यभिचारशङ्कानिवर्त्तकतर्कमाह । असतोऽपी- ति । प्रागसतोऽपीत्यर्थः । तेन नालीकविधिपर्यवसानम्, तदाकारञ्च कार्यं यद्यविद्यमानप्राग्- हेतुकं स्यान्नियतकालोत्पत्तिकं न स्यादपि तु सदातनमेव स्यात् । अयमापादकः पराभ्युपगत एव । अथवा हेतुत्वं यदि प्रागविद्यमानावृत्ति स्यान्नियतकालोत्पत्तिनियामकताप्रयोजकं न स्यादिति । पटार्थिनः=पटनिर्म्माणेच्छावन्तः । तेन पटेच्छाभिः पट उपादीयमानेऽपि न