न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 90, कुल 608 में से
संदर्भ में पढ़ें५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां इति स्वभावार्थ इति चेत् । नापेक्ष्यन्ते इति कोऽर्थः, किं न नियताः ? आहोस्वि- न्नियता अप्यनुपकारकाः ? प्रथमे धूमो दहनवद्गर्दभमप्यवधीकुर्यात् , नियाम- बोधनी । न्त इति । तदेतद् विकल्प्यानिष्टप्रसङ्गेनेष्टसिद्ध्या च दूषयति - नापेक्ष्यन्त इति । कथमनिय- तस्यैवावधित्वमङ्गीकुर्वतस्तदेवानिष्टत्वेनाऽऽपाद्यते गर्दभमप्यवधीकुर्यादिति ? उच्यते । यदि यस्य कस्यचिदानन्तर्यं धूमस्य स्वभावः, तदा नित्यं यस्य कस्यचिद् भावाद् धूमस्य सदातनत्वा- पत्तेरकामेनापि नियतोऽवधिरङ्गीकार्यः, तथाच नियमो दूषणमिति । नियामकाभावादिति । प्रकाशः । ति । प्रागभावादन्येषामवधित्वेऽपि तैर्घटादिसत्ताया अनियमनान्न तानि कारणानीत्यर्थः । प्रथम इति । ननु यो दहनव्यभिचारी स रासभानन्तरं भवतीत्यत्रापादकाभावः । स्वयमपि व्याप्तेरनभ्युपगमात् । न च धूमत्वं यदि दहनव्यभिचारिवृत्ति स्यात् दहनासमवहितसामग्र्युत्त- प्रकाशिका । मतो न प्रागभावे व्यभिचारः, अत एव मूले प्रागपीत्येवोक्तम् । भावत्वे सतीत्यापादक- विशेषणाद्वा । धूमत्वमिति । ननु परमाणुत्वादौ व्यभिचारः, न च जन्यवृत्तित्वे सतीत्यापाद- कविशेषणम् , तथापि परमाणुधूमविशेषान्यतरत्वे व्यभिचारात् । न । दहनव्यभिचारि यज्जन्यं तद्वृत्तित्वस्यापादकत्वात् । दहनासमवहितत्वं तदसहकृतत्वं तद्घटितत्वं वेत्यभिप्रे- मकरन्दः । चारादधिकरणत्वस्याप्यतथात्वात् । प्रत्यक्षनिरूपणमादाय व्यभिचारश्च तुल्यः । चक्षुष्ट्वेन व्यभि- चारेऽपीन्द्रियत्वेनान्यभिचाराद् विशिष्याधिकरणेऽपि व्यभिचारात् । अस्तु वैवं, तथाप्यनन्यथा- सिद्धस्य प्रागभावनिरूपकस्याधिकरणग्रहादेर्यथा न घटकारणत्वं, तथाऽनादेरपि न तथात्वमिति दोषस्तदवस्थ एव । एतेन परमतमाश्रित्यैव चक्षुरादेरन्यथासिद्धत्वाभिधानमित्यपास्तम् । अधिक- रणग्रहमादायोक्तदोषानिवृत्तेः । किञ्च यदि चक्षुरादिव्यापाराभावेऽपि तत्प्रतीतेस्तदन्यथासिद्धं, त- दाऽधिकरणग्रहणमपि तथा स्यात् । शब्दादिना तद्विनाऽपि तत्प्रतीतेः । घटोऽप्येवं चाक्षुषो न स्यात् तद्व्यापाराभावेऽप्यनुमानादिना तत्प्रतीतेः । प्रतीतिविशेषे वा व्यभिचारस्तुल्य एवेति चेत् । अत्र ब्रूमः । अधिकरणत्वेन प्रागभावनिरूपकस्य तत्प्रतियोगिजनकतवमिति नियमः । कपालादेश्च तथात्वात्तज्जनकत्वं न चक्षुरादेरित्यत्र तात्पर्यम् । निरूपकञ्च प्रत्यक्षनिरूपण एवेत्य- वधेयम् । न च तत्राप्यधिकरणस्य न निरूपकत्वं, किन्तु तद्बुद्धेरिति वाच्यम् । प्रयोजकत्व- मात्रस्यैव विवक्षितत्वात् । न च प्रतियोगिसमवायिभिन्नस्य देशकालादेरपि तन्निरूपकत्वाभ्युपगमा- द् व्यभिचार इति वाच्यम् । तस्यापि हेतुत्वाभ्युपगमात् । ननु देशकालयोः का गतिरिति चेत् । न । तयोरपि स्वरूपयोग्यत्वात् । वस्तुतोऽधिकरणत्वेन निरूपकजातीयं किञ्चिदवश्यं कारणमिति नियम इति केचित् । उपस्थिते प्रागभावे घटकारणत्वग्रहः, उपस्थितिश्च तस्य न कपालाद्युपस्थि- तिमन्तरेणेति कारणताग्राहकमानेन प्रथमोपस्थितकपालादेरेव कारणत्वं गृह्यते, न तु प्रागभावस्या- पि । उत्पन्नानुत्पत्त्या तु तस्य तथात्वग्रहो, न तु प्रत्यक्षात् । चक्षुरादिकञ्च न तदोपस्थितं न वा- कपालादिवदनन्यथासिद्धमिति न कारणमित्यत्र तात्पर्यम् । आपादके विशेषणमित्यन्ये । न च नित्यत्वमुपाधिः । तस्याप्यापाद्यत्वादिति भावः । न च धूमत्वमिति । न च परमाण्वादौ व्य- भिचारः, जन्यवृत्तित्वे सतीत्यापादकविशेषणादित्याहुः । तन्न । परमाणुधूमसामान्यतरत्वादौ व्यभि- चारात् । तस्माद्दहनव्यभिचारिभूतजन्यवृत्ति स्यादित्यापादकमतो नोक्तदोषः । दहनासमवहित-