भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 91, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 91

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५७ काभावात् । द्वितीये तु किमुपकारान्तरेण ? 'नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् । नित्यस्वभावनियमव- बोधनी । अनियतत्वाविशेषे दहन एवावधिर्न रासभ इति नियामकाभावादित्यर्थः । नियमस्येति । इदमेव हि कार्यस्य कारणापेक्षित्‍वं नाम, यत्तस्मिन् सत्येव भवतीति । यदि नियमातिरिक्त उपकारो नाङ्गीक्रियते तर्हि स्वभाववाद एव सिद्धः स्यादित्याह— ईदृशस्येति । चश्चेदर्थे । दहनादिषु सत्स्वेव धूमादयो भवन्तीतीदृशः स्वभाववादश्चेत् स तर्ह्यस्माभिरिष्यत एवेति । तदेव- मन्यथासिद्धिं निराकृत्य सम्प्रति चार्वाकाङ्गीकृतं प्रमाणमाशङ्कते—नित्य-इति । अस्यार्थः । यथा नित्यानामाकाशादीनामाकाशत्वादयः स्वभावविशेषा निरपेक्षा अपि तैस्तैराकाशादिभिर्नियता- स्तथानपेक्षमेव कार्यं केनचिदेव कालेन संसृज्यते नान्येनेति नियम्यत इति न सदातनत्वप्रसक्तिः । अनपेक्षत्वसम्प्रतिपत्त्यर्थं नित्यग्रहणम् । अनेन दृष्टान्तावष्टम्भेन प्रयोगं सूचयति, कादाचित्कत्वस्व- भावनियमो निर्हेतुकः स्वभावनियमत्वात् नित्यस्वभावनियमवदिति । अनेन कादाचित्कत्वहेतो- प्रकाशः । रकालोत्पत्तिकवृत्ति स्यादित्यर्थः । परस्येष्टापत्तेः । मैवम् । धूमो यदि रासभसमवधानोत्पत्तिकता- वच्छेदकरूपवान् स्याद् रासभसमवधानान्तर्रोत्पत्तिकः स्यात्, धूमत्वं वा यदि दहनव्यभिचारिवृत्ति स्याद् दहनास‍मवहितदेशवृत्तिवृत्ति स्यादित्यापादना॑र्थत्वात् । वस्तुतो यद्यन्निर्धूमकारणं न स्यात्, तदा कथं धूमार्थी नियमतोऽग्निमुपादत्ते न रासभमिति तद्ग्राहिप्रत्यक्षव्याघात इति भावः । द्वितीये त्विति । न ह्युपकारव्यासक्ता कारणता येन तदभावे न स्यात्, उपकारेऽपि कर्त्तव्ये उपकारान्तरापेक्षयानवस्थितेः, किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्त्तत इत्य- र्थः । नियमस्यैवेति । नियतान्वयव्यतिरेकवज्जातीयस्यैवापेक्षणीयपदवाच्यतया लोकप्रसिद्ध- त्वादित्यर्थः । नित्यस्वभावेति । यथा नित्यस्याकाशस्य यः स्वभावो धर्मः शब्दाश्रयत्वम्, प्रकाशिका । त्याह । परस्येति । धूमो यदीति । ननु धूममात्रस्य पक्षत्वे आपादकासिद्धिः धूममात्रस्य रास- मसमवधानान्तरोत्पत्तिकत्वेन परेणानभ्युपगमाद्, धूमत्वस्यावच्छेदकत्वानभ्युपगमात् । न च रासभसमवधानान्तरोत्पत्तिकधूम एव पक्षः, तत्रेष्टापत्तेः । मैवम् । वह्निसमवधान नन्त- रोत्पत्तिकतावच्छेदकत्वं यदि वह्निव्यभिचारिवृत्तेरपि धूमत्वस्याभ्युपेयते तदा रासभसमवधान- न्तरोत्पत्तिकतावच्छेदकत्वमपि तस्योपेयं, परेणेति पराभ्युपगमसत्त्वात् धूममात्रपक्षत्वेऽक्षतेः । अत एव वास्वरसादाह । धूमत्वं चेति । अत्र च वृत्तिपदं समवेतत्वपरमतो न धूमत्वजाते- र्व्यापकत्या इष्टापत्तिरित्यवधेयम् । अत्र च नेष्टापत्तिः, धूमस्य वह्निजन्यतानभ्युपगमेऽपि तदस- मवहितदेशवृत्तित्वानभ्युपगमादिति भावः । ननु कश्चित् धूमो वह्निं विनापि स्यादित्याशङ्कितुरिष्टाप- त्तिरत्र, किंच एतावता व्यापकतासिद्धावपि न तद्देशोपकारणतासिद्धिरित्यरुचेराह । वस्तुत इति । तथा च व्याघातान्न तादृशी शङ्का, एवं च सति पूर्वपक्षतर्कोऽपि न सम्यगित्‍यनधेयम् । न रास- भमित्युपलक्षणम् । न व्यापकमप्याकाशादीति द्रष्टव्यम् । तेन व्यापकविशेषेऽपि कारणत्वं तद्भू- मकरन्दः । त्वं तदसहकृतत्वं तद्घटितत्वं वाभिप्रेत्याह । परस्येति । धूमो यदीति । धूममात्रस्य पक्षत्वे आपादकासिद्धिः, धूममात्रस्य तत्समवधानोत्तरोत्पत्तिकत्वाभावेन धूमत्वादेस्तदनवच्छेद- कत्वात् । रासभोत्तरभाविधूमस्य पक्षत्वे सिद्धसाधनं, तद्धूमत्वावच्छिन्नस्य तथाभावादिति चेद् मैवम् । धूमस्य समवधानोत्तरोत्पत्तिकत्वनियमेऽपि दहनस्य तदनियतत्वं परेणाभिप्रेतमिति त- ८ न्या० कु०