भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 92, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 92

५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां देतत् , न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचि- बोधनी । स्तुल्यबलत्वाभिमाने सत्प्रतिपक्षत्वमन्यथा बाधः स्वपक्षसाधनं वेति । केचित् पूर्वमपि नियत- देशवदिति प्रयोगः सूचितः तस्मिन् देशनियमस्य कारणापेक्षित्‍वं परिहर्त्तुं दृष्टान्तन्तरेण प्रत्य- वतिष्ठन्ते, नित्यस्वभावनियमस्य कारणापेक्षायामसंभवादित्यपौनरुक्त्यं मन्यन्ते । तन्तु पौर्वापर्या- परामर्शविलसितमित्यनादरणीयमिति । उक्तमेवोपपादयति नहि—इति । तत्त्वमाकाशत्वं सर्वस्य कालादेः । तदुक्तम्— नित्यसत्त्वा भवन्त्यन्ये नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः ॥ प्रकाशः । आत्मनश्चात्मत्वमाकस्मिकमिति सर्वस्य तदन्यस्यापि धर्मः कुतो न स्यादिति न वक्तुमुचितम्, प्रामाणिकत्वात् । तथा आकस्मिकत्वाविशेषेऽपि सदातनत्वमाकाशादीनां, कादाचित्कत्वं घटादीनां स्वभावो, न त्वन्यस्य धर्मोऽन्यस्येत्यर्थः । यथाऽऽहुः— नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ वह्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः । केनेदं रचितं तस्मात् स्वभावात्तद्व्यवस्थितिः ॥ इति । न च नियतदेशवन्नियतकालस्वभाव इत्यनेनास्य पौनरुक्त्यम् । पूर्वं हिसापेक्षत्वादित्यत्र यथा परमाणुतत्परिमाणादीनां निरपेक्षत्वेऽपि नियतदेशवृत्तित्वं तथा घटादीनां नियतकालत्वं स्यादि- त्यप्रयोजकत्वमुक्तम् , सम्प्रति तु कादाचित्कत्वस्वभावो निर्हेतुकः स्वभावानियतत्वात् नित्य- स्वभाववदिति सत्प्रतिपक्षत्वमुक्तमित्यर्थभेदात् । पूर्वं यन्नियतं तन्न कारणनियम्यं, यथा जातेः क्वाचित्कत्वमित्युक्तम् , सम्प्रति तु स्वभावो न नियम्य इत्युच्यत इत्यपौनरुक्त्यमित्यन्ये । प्रकाशिका । र्छादेव सिद्धमिति भावः । स्वभावानियतत्वादित्यत्र नियतपदं स्पष्टार्थम् । अन्य इत्यरुचौ । तद्बी- जन्तु जातेरपि नियतत्वं स्वभावादेव न तु कारणादेरिति स्वभावानियतं यत्तन्न कारणनियम्यमित्यर्थ- मकरन्दः । ऽव्यभिचारित्वमेव तदुत्तरोत्पत्तिकतावच्छेदकत्वेन पराभिप्रेतमिति धूममात्रस्य पक्षत्वेऽप्यदो- पादित्याहुः । स्वभावानियतत्वादिति । अत्र नियतपदं चिन्त्यम् । टिप्पणी । वधित्‍वनिबन्धनमेव मन्तव्यमिति निरवधित्‍वकादाचित्कत्‍वयोः परस्परविरोधावधारणमिति भावः । अथवा मास्तु चेत्तदधीनत्वं तस्य तयोरेकदेशनैयत्ये तात्पर्यं तद्ग्रन्थस्येति ध्येयम् । सापेक्ष- त्वादित्यत्रेति । कार्य्यं सहेतुकं सापेक्षत्वात् कादाचित्कत्वादित्यत्रेत्यर्थः । निरपेक्षत्वेऽपीति । निर्हेतुकत्वेऽपीत्यर्थः । सम्प्रति त्विति । स्वभावस्यातिरिक्ततया प्रयोजकत्वे बीजाभावस्योक्त- त्वात् , प्रयोजकत्वेऽपि तत्रैव कारणवादाभ्युपगमः स्यादित्यतो नियतदेशवदित्यादिग्रन्थ- मनाकलयन्निव पुनः सर्वथाकारणवादं निरसितुमभिसन्धत्ते नित्येत्यादीति ग्रन्थाशयः । अन्य इति । जातेरपि नित्यत्वं स्वभावादेव न तु कारणादिति स्वभावानियतं यत्तन्न कारण-