भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 112, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 112

भाषाटीकासमेतम् । ( ९७ )

वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छ- पप्रभृतयस्तमभ्युपेत्य पप्रच्छुः- "माम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति?” । बक आह-“अस्ति अस्य जला- शयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डम- ण्डितं यच्चतुर्विंशत्यापि वर्षाणामवृष्ट्या न शोषमेष्यति। तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि"। अथ ते तत्र विश्वासमापन्नाः तात ! मातुल ! भ्रातः ! इति ब्रुवा- णा अहं पूर्वमहं पूर्वमिति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचराणां मिथ्यावार्त्तासन्देशैर्मनां- सि रञ्जयन्नित्यामिवाहारवृत्तिमकरोत् । अन्यस्मिन् दिने च कुलीरकेणोक्तः--“माम ! मया सह ते प्रथमः स्नेहसम्भाषः सञ्जातः। तत् किं मां परित्यज्य अन्यान्नयसि । तस्मादद्य मे प्राणत्राणं कुरु”। तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान् । “निर्विण्णोऽहं मत्स्यमांसादनेन । तदद्य एनं कुलीरकं व्यञ्जन- स्थाने करोमि”। इति विचिन्त्य तं पृष्ठे समारोप्य तां वध्य- शिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थिपर्वतं शि- लाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत्--“माम! कियद्दूरे स जलाशयः ? मदीयभारेण अतिश्रान्तस्त्वं तत् कथय” । सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह--“कुलीरक ! कुतोऽन्यो जला- शयः मम प्राणयात्रेयम्, तस्मात् स्मर्य्यतामात्मनोऽभीष्टदे- वता । त्वामपि अस्यां शिलायां निक्षिप्य भक्षयिष्यामि”। इत्युक्तवति तस्मिन् स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैः तज्जलाशयमाससाद । ततः सर्वैरव ७