भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 111, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 111

( ९६ ) पञ्चतन्त्रम् । जो सूर्यपुत्र (शनि) इस लोकमें रोहिणी शकटको भेदन करे तो बारह वर्षतक इन्द्र पृथ्वीमें वर्षा नहीं करता है ॥ २३३ ॥ तथाच- और भी- प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा । भस्मास्थिशकलकीर्णा कापालिकमिव व्रतं धत्ते ॥ २३४॥ रोहिणीका शकट शनिसे भेदित होनेसे पृथ्वीमें पातक होता है । तथा पृथ्वी भस्म अस्थिके खण्डसे व्याप्त होकर कापालिक व्रतको धारण करती है॥२३४॥ तथाच- और देखो-- रोहिणीशकटमर्कनन्दनश्चेद्भिनत्ति रुधिरोऽथवाशशी । किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति संक्षयः २३५ जो रोहिणीके शकटको शनि मंगल अथवा चन्द्रमा भेदनकरे तो इस अनिष्ट सागरको मैं क्या कहूँ सबही लोक क्षय होजांय ॥ २३५ ॥ रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः । क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः॥ चन्द्रमाके रोहिणी शकटमें स्थित होनेसे शरण रहित होके मनुष्य बालक- मारकर खानेवाले तथा सूर्यके तापसे भेदको प्राप्त हुए जलके पीनेवाले कहां जांय ॥ २३६ ॥ तदेतत्सरः स्वल्पतोयं वर्त्तते । शीघ्रं शोषं यास्यति अ- स्मिन् शुष्के यैः सह अहं वृद्धिं गतः सदैव क्रीडितश्च ते सर्वे तोयाभावात् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुमहमस- मर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प- जलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते, केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति तेनाहं विशेषात् रोदिमि यद्बीजशेषमात्रमप्यत्र न उद्धरि- ष्यति”। ततः स तदाकर्ण्य अन्येषामपि जलचराणां तत् तस्य