पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 170, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( १५५ ) ष्ठान करनेमें मेरी सहायता करो” । मक्षिका बोली,-“भद्र ! इस विषयमें क्या कहते हो । कहा है- पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत्पुनर्मित्रमित्रस्य कार्य मित्रैर्न किं कृतम् ॥ ३६९ ॥ फिर प्रत्युपकारके लिये मित्रोंका प्रिय किया जाता है फिर मित्रोंका कार्य मित्र कौनसा नहीं करते सब करते हैं ॥ ३६९ ॥ सत्यमेतत् परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति, तमपि आहूय यथोचितं कुर्मः । उक्तञ्च- यह सत्य है, परन्तु मेरा मित्र एक मेघनाद नामक मेंडक है सो उसेभी बुलाकर यथोचितकार्य करें, कहा है- हितः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः । कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३७० ॥” हितकारी अच्छे आचरणवाले शास्त्रज्ञाता बुद्धिमान् विद्वानोंका विचारा हुआ कभी अन्यथा नहीं होता ॥ ३७० ॥” अथ ते त्रयोऽपि गत्वा मेघनादस्य अग्रे समस्तमपि वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-“कियन्मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन्मदीयो मन्त्रः कर्त्तव्यः । मक्षिके ! त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य गजस्य कर्णे वीणारवसदृशं शब्दं कुरु, येन श्रवणसुखला- लसो निमीलितनयनो भवति । ततश्च काष्ठकूटचंच्वा स्फो- टितनयनोऽन्धीभूतः तृषार्त्तो मम गर्त्ततटाश्रितस्य सपरिक- रस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्त्तमा- साद्य पतिष्यति पञ्चत्वं यास्यति च । इति । एवं समवायः कर्त्तव्यो यथा वैरसाधनं भवति” । अथ तथा अनुष्ठिते स मत्तगजो मक्षिकागेयसुखात् निमीलितनेत्रः काष्ठकूटहतचक्षुः मध्याह्नसमये भ्राम्यन् मण्डूकशब्दानुसारी गच्छन् महतीं गर्त्तामासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि“चटका काष्ठ- कूटेन” इति ।