भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 174, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 174

भाषाटीकासमेतम्। (१५९) तं समुद्रं शोषयामः” । एवं चिन्तयतस्तस्य विष्णुदूतः समा- गत्य आह--“भो गरुत्मन् ! भगवता नारायणेन अहं तव पार्श्वे प्रेषितः, देवकार्यार्थ भगवान् अमरावत्यां यास्यतीति तत् सत्वरमागम्‍यताम्”। तच्छ्रुत्वा गरुडः साभिमानं प्राह,- “भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनाथ अस्मत्स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तञ्च- यह वचन गरुड सुन उसके दुःखसे दुःखी हुआ क्रोधकर विचारने लगा । “अहो ! इन पक्षियोंने सत्य कहा सो आज जाकर उस सागरको शोषलेंगे” । उसके यह विचार करनेमें विष्णुदूत आनकर बोला,-“भो गरुड ! नारायण भगवान्‌ने मुझे तुम्हारे पास भेजा है । देवकार्य्यके निमित्त भगवान् अमरावतीको जायगे सो शीघ्र आओ”। यह सुन गरुड अभिमानपूर्वक बोला,-“भो दूत ! मुझ कुभृत्यसे भगवान् क्या करेंगे । सो जाकर उनसे कहो किसी और भृत्यको मेरे स्थानमें वहनयोग्य करें । भगवान्‌से मेरा नमस्कार कहदेना । कहाहै- यो न वेत्ति गुणांर्यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥ ३८१ ॥” जो जिसके गुण नहीं जानता बुद्धिमान्‌को चाहिये कि, उसकी सेवा नकरे उससे कुछ फल नहीं प्राप्त होताहै जैसे जोती हुई ऊषरभूमिसे ॥ ३८१ ॥” दूत आह--“भो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया न एतदभिहितमीदृक् । तत् कथय किं ते भगवता अप- मानस्थानं कृतम् ?” गरुड आह-“भगवदाश्रयभूतेन समु- द्रेण अस्माट्टिट्टिभाण्डानि अपहृतानि, तद्यदि तस्य विग्रहं न करोति तदहं भगवतो न भृत्य इत्येव निश्चयस्त्वया वाच्यः। तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम्” । अथ दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय भगवान् चिन्तयामास। “अहो ! स्थाने कोपो वैनतेयस्य, तत् स्वयमेव गत्वा सम्मा- नपुरःसरं तमानयामि । उक्तञ्च,-