पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 249, कुल 536 में से
संदर्भ में पढ़ें( २३४ ) पञ्चतन्त्रम् । यच्छन्नल्पमपि जलदो वल्लभतामेति सकललोकस्य । नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ॥ ७९ ॥ जलदानसे भी मेघ सकल लोकका प्यारा होताहै नित्य हाथका फैलानेवाला मित्रभी देखनेको अशक्य होजाताहै ॥ ७९ ॥ एवं ज्ञात्वा दारिद्र्याभिभूतैः अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तञ्च- इस प्रकार जानकर दारिद्र्यसे तिरस्कृत हुएको भी देशकाल पात्रमें किंचित् देना चाहिये । कहाहै- सत्पात्रं महती श्रद्धा देशे काले यथोचिते । यद्दीयते विवेकज्ञैस्तदानन्त्याय कल्पते ॥ ८० ॥ सत्पात्रको बडी श्रद्धासे देश काल पात्रमे ज्ञानियोंद्वारा जो दियाजाताहै वह अनन्त होताहै ॥ ८० ॥ तथाच- औरभी- अतितृष्णा न कर्त्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥ ८१ ॥" अधिक तृष्णा न करे सर्वथा तृष्णाका त्यागभी नकरे । अत्यन्त तृष्णावालेके मस्तकमें शिखा होतीहै ॥ ८१ ॥” ब्राह्मणी आह- “कथमेतत् ? ” स आह- ब्राह्मणी बोली- “यह कैसे ?” वह बोला- कथा ३. अस्ति कस्मिंश्चित् वनोद्देशे कश्चित् पुलिन्दःस च पापर्द्धिं कर्त्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महान् अञ्जनपर्व- तशिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट- निशितसायकेन समाहतः,तेनापि कोपाविष्टेन चेतसा बाले- न्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुः भूतलेऽप- तत्। अथ लुब्धकं व्यापाद्य शूकरोऽपि शरप्रहारवेदनया पञ्च- त्वं गतः । एतस्मिन्नन्तरे कश्चित् आसन्नमृत्युः शृगाल इत