भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 265, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 265

( २५० ) पञ्चतन्त्रम् ।

बुद्ध्या स एवायमिति आश्वस्तचित्तया स्नानखादनपानाच्छा- दनादिना सम्मान्य तेन सह शयनतलमाश्रितया तदङ्गसं- स्पर्शसञ्जातहर्षरोमाञ्चितगात्रया उक्तम्-“युष्मद्दर्शनमात्रानुर- क्तया मया आत्मा प्रदत्तोऽयम् । त्वद्वर्जं अन्यो भर्त्ता मनासि अपि मे न भविष्यतीति । तत् कस्मात् मया सह न ब्र- वीषि”। सो ब्रवीत-“प्राप्तव्यमर्थं लभते मनुष्यः”। इत्युक्तेतयाऽ- न्योऽयमिति मत्वा धवलगृहादुत्तार्य्य मुक्तः । स तु खण्डदेवकुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्तसङ्केतको यावत् दण्डपाशकः प्राप्तस्तावदसौ पूर्वसुप्तः तेन दृष्टो रहस्यसंरक्षणा- र्थमभिहितश्च-“को भवान् ?” सोऽब्रवीत्,-“प्राप्तव्यमर्थं लभते मनुष्यः”। इति श्रुत्वा दण्डपाशकेन अभिहितम्,- “यच्छून्यं, देवगृहमिदम् । तदत्र मदीयस्थाने गत्वा स्वपि- हि” तथा प्रतिपद्य स मतिविपर्य्यासात् अन्यशयने सुप्तः । अथ तस्य रक्षकस्य कन्या नियमवती नाम रूपयौवनस- म्पन्ना कस्यापि पुरुषस्य अनुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एव अयमस्मद्वल्लभ इति रात्रौ घनतरान्धकारव्यामोहिता उत्थाय भोजनाच्छा- दनादिक्रियां कारयित्वा गान्धर्वविवाहेन आत्मानं विवाह- यित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाह,-“किमद्यापि मया सह विश्रब्धं भवान् न ब्रवीति” । सोऽब्रवीत्,-“प्राप्तव्यमर्थं लभते मनुष्यः” इति श्रुत्वा तया चिन्तितम्, यत्कार्य्यमसमैक्षितं क्रियते तस्य ईदृक्फलवि- पाको भवति” इति । एवं विमृश्य सविषादया तया निःसा- रितोऽसौ । स च यावद्वीथीमार्गेण गच्छति तावदन्यविषय- वासी वरकीर्त्तिर्नाम वरो महता वाद्यशब्देन आगच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत्प्रत्यासन्ने लग्नसमये राजमार्ग्यासन्नश्रेष्ठिगृहद्वारे रचितमण्डपवेदिकायां कृतकौतुकमङ्गलवेशा वणिक्सुता अस्ति तावत् मदमत्तो

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · पृष्ठ 265, कुल 536 में से · BharatKosha