भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 279, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 279

( २६४ ) पञ्चतन्त्रम् । सोमिलक आह–"यद्यपि भोगो नास्ति तथापि तद्भवतु । उक्तञ्च– सोमिलक बोला–"यद्यपि भोगनहीं है तथापि धनहो । कहा है– कृपणोऽप्यकुलीनोऽपि सज्जनैर्वर्जितः सदा । सेव्यते स नरो लोके यस्य स्याद्वित्तसञ्चयः ॥ १४५ ॥ कृपण, अकुलीन, सज्जनोंसे सदा वर्जितभी धनी मनुष्यको लोकमें सब कोई सेवन करते हैं ॥ १४५ ॥ तथाच– ओर देखो– शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे ! दश वर्षाणि पञ्च च ॥ १४६ ॥ हे भद्रे ! मैंने पन्द्रहवर्षतक शिथिल दृढ पतित होते अपतित वृषण देखे हैं ॥ १४६ ॥ पुरुष आह–"किमेतत् ?" सोऽब्रवीत्– पुरुष बोला,–"यह कैसी कथा ?" वह बोला– कथा ६. कस्मिंश्चित् अधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः प्रतिवसति स्म, स च मदातिरेकात् परित्यक्तनिजयूथः शृङ्गाभ्यां नदीतटानि विदारयन् स्वेच्छया मरकतसदृशानि शष्पाणि भक्षयन् अरण्यचरो बभूव । अथ तत्र एव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्वभा- र्य्यया सह नदीतीरे सुखोपविष्टः तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणौ अवलोक्य शृगाल्या शृगालोऽभिहितः– "स्वामिन् ! पश्य अस्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ । तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठमनुयायिना भाव्यम्" । शृगाल आह– "प्रिये ! न ज्ञायते कदा एतयोः पतनं भविष्यति वा न वा ।