भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 325, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 325

( ३१० ) पञ्चतन्त्रम् । स्वामी सम्बन्धी बडे पुरुषोंका नाममात्र ग्रहण करनेमेंभी दुष्टोंके आगे उसी समय क्षेम होजातीहै ॥ ७९ ॥ तथाच- तैसेही- व्यपदेशेन महतां सिद्धिः सञ्जायते परा । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ८० ॥" तथा बडे पुरुषोंके व्याजसे बडी सिद्धि होतीहै चन्द्रमाके नामसे खरगोश प्रसन्न ( सुखी ) रहते हैं ॥ ८० ॥" ते ऊचुः-“कथमेतत् ?” स आह- वे बोले-“यह कैसी कथाहै ?” वह बोला- कथा १. कस्मिंश्चित् वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचित् महती अनावृष्टिः सञ्जाता प्रभूतवर्षाणि यावत् । तथा तडागह्रदपल्वलसरांसि शोषमु- पगतानि । अथ तैः समस्तगजैः स गजराजः प्रोक्तः-“देव ! पिपासाकुला गजकलभा मृतप्राया अपरे मृताश्च । तत् अन्विष्यतां कश्चित् जलाशयो यत्र जलपानेन स्वस्थतां व्रजन्ति” । ततश्चिरं ध्यात्वा तेन अभिहितम्-“अस्ति महान् ह्रदो विविक्ते प्रदेशे स्थलमध्यगतः पातालङ्गाजलेन सदैव पूर्णः । तत् तत्र गम्यताम्” इति । तथानुष्ठिते पञ्चरा- त्रमुपसर्पद्भिः समासादितः तैः स ह्रदः । तत्र स्वेच्छया जलमवगाह्य अस्तमनवेलायां निष्क्रान्तास्तस्य च ह्रदस्य समन्तात् शशकबिला असङ्ख्याः सुकोमलभूमौ तिष्ठन्ति । तेऽपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नाः। बहवः शशका भग्नपादशिरोग्रीवा विहिताः केचिन्मृताः केचिज्जी- वशेषा जाताः । अथ गते तस्मिन् गजयूथे शशकाः सोद्वेगा गजपादक्षुण्णसमावासाः केचिद्भग्नपादा अन्ये जर्जरितकले-