पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 327, कुल 536 में से
संदर्भ में पढ़ें( ३१२ ) पञ्चतन्त्रम् । त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ८२ ॥ कुलके वास्ते एकको त्यागन करे, ग्रामके वास्ते कुलको त्यागदे देशके वास्ते ग्रामको त्यागदे अपने निमित्त पृथिवीको त्यागदे ॥ ८२ ॥ क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ ८३ ॥ कल्याणवाली, शस्य देनेवाली, नित्य पशुकी वृद्धि करनेवाली भी भूमिको राजा बिना विचारे अपने निमित्त त्यागदे ॥ ८३ ॥ आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ८४ ॥ आपत्तिके निमित्त धनकी रक्षा करै, धनोंसेभी स्त्रीकी रक्षा करै, अपनी आत्माको सदा स्त्री और धनसे रक्षाकरै ॥ ॥ ८४ ॥” ततश्च अन्ये प्रोचुः-“भोः ! पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचित् विभीषिका यत् कथमपि दैवात् न समायान्ति । उक्तञ्च- तब और बोले-“भो ! पितृ पितामहका स्थान एक साथ त्यागन नहीं हो सक्ता है सो उनके निमित्त कोई भय देना चाहिये जो किसी प्रकार भाग्यसे न आवे । कहा है- निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु मा वाऽस्तु फणाटोपो भयङ्करः ॥ ८५ ॥” निर्वीर्य सर्पकोभी बड़ा फग करना चाहिये विष हो या नहो फणाटोप भयंकर है ॥ ८५ ॥” अथ अन्ये प्रोचुः-“ यदि एवं ततः तेषां महद्विभीषिका- स्थानमस्ति येन न आगमिष्यन्ति । सा च चतुरदूतायत्ता विभीषिका । यतो विजयदत्तो नाम राजा अस्मत्स्वामी शशकः चन्द्रमण्डले निवसति तत् प्रेष्यतां कश्चित् मिथ्या- दूतो यूथाधिपसंकाशं यत् “चन्द्रस्त्वामत्र ह्रदे आगच्छतं निषेधयति यतोऽस्मत्परिग्रहोऽस्य समन्ताद्वसति” एवमभि-