पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 383, कुल 536 में से
संदर्भ में पढ़ें( ३६८ ) पञ्चतन्त्रम् । हमदृश्यो भवामि" । अथ मुनिना मेघमपि आहूय कन्या अभिहिता,-"पुत्रिके ! अस्मै त्वां प्रयच्छामि?"। सा प्राह,- "कृष्णवर्णोऽयं जड़ात्मा च । तदस्मात् अन्यस्य प्रधानस्य कस्यचित् मां प्रयच्छ" । अथ मुनिना मेघोऽपि पृष्टः-"भो भो मेघ ! त्वत्तोऽपि अधिकोऽस्ति कश्चित् ?" मेघेनोक्तं, "मत्तो- ऽपि अधिकोऽस्ति वायुः । वायुना हतोऽहं सहस्रधा यामि" । तच्छ्रुत्वा मुनिना वायुराहूतः । आह च,-"पुत्रिके ! किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति ?" सा अब्र- वीत्-"तात ! अतिचपलोऽयं तदस्मादपि अधिकः कश्चित् आनीयताम्" । मुनिराह,-"वायो ! त्वत्तोऽपि अधिकोऽ- स्ति कश्चित् ?" पवनेन उक्तं,-"मत्तोऽपि अधिकोऽस्ति पर्वतो येन संस्तभ्य बलवानपि अहं ध्रिये" । अथ मुनिः पर्वतमाहूय कन्यामुवाच-"पुत्रिके ! त्वामस्मै प्रयच्छामि?"। सा प्राह,-"तात ! कठिनात्मकोऽयं स्तब्धश्च । तत् अन्यस्मै देहि मां"। मुनिना पर्वतः पृष्टः-"भोः पर्वतराज ! त्वत्तोऽपि अधिकोऽस्ति कश्चित् " । गिरिणा उक्तम्-"मत्तोऽपि अधिकाः सन्ति मूषिका ये मच्छरीरं बलात् विदारयन्ति"। ततो मुनिः मूषिकमाहूय तस्या अदर्शयत् । आह च-- "पुत्रिके ! त्वामस्मै प्रयच्छामि किमेष प्रतिभाति ते मूषिक- राजः ?" । सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना पुलकोद्भूषितशरीरोवाच-"तात ! मां मूषिकां कृत्वा अस्मै प्रयच्छ । येन स्वजातिविहितं गृहधर्मम् अनुतिष्ठामि" । ततः सोऽपि स्वतपोबलेन तां मूषिकां कृत्वा तस्मै प्रादात् । अतोऽहं ब्रवीमि-- सो यदि इसको अच्छा लगे तो भगवान् सूर्यको बुलाकर उन्हें प्रदान करूं" । वह बोली- "इसमें क्या दोष है। यही करो" तब मुनिराजने सूर्यको बुलाया । वेदमंत्रके उच्चारणप्रभावसे उसी क्षणमें सूर्य आकर बोले- "भगवन्, मुझे क्यों बुलाया है ?" । वह बोले-"यह मेरी कन्या है । जो यह तुमको वरण करे तो