पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 428, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (४१३) "किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक । स्वपक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥ ३१ ॥ "हे दुष्ट रोदन करनेवाले ! क्यो रोदन करता है, हे अपने पक्षके क्षय करने वाले ! अपना पक्ष क्षय होनेपर अब कौन हमारी रक्षा करेगा ॥ ३१ ॥ तत् अद्यापि विचिन्त्यतां आत्मनो निष्क्रमणमस्य वधोपायश्च” । अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गङ्गदत्तः तिष्ठति । ततः प्रियदर्श- नेन भणितं ,-“भो गङ्गदत्त ! बुभुक्षितोऽहं निःशेषिताः सर्वे मण्डूकाः । तदीयतां मे किञ्चित् भोजनं यतोऽहं त्वया अत्र आनीतः”। स आह,-“भो मित्र ! न त्वया अत्र विषये मया अवस्थितेन कापि चिन्ता कार्या तत् यदि मां प्रेषयसि ततोऽन्यकूपस्थान् अपि मण्डूकान् विश्वास्य अत्र आनयामि”। स आह-“मम तावत् त्वं अभक्ष्यो भ्रातृस्थाने, तत् यदि एवं करोषि तत् साम्प्रतं पितृस्थाने भवसि,तदेवं क्रियताम्”इति । सोऽपि तत् आकर्ण्य अरघट्टघटिकां आश्रित्य विविधदेवतो- पकल्पितपूजोपयाचितः तस्मात् कूपात् विनिष्क्रान्तः । प्रिय- दर्शनोऽपि तदाकांक्षया तत्रस्थः प्रतीक्षमाणः तिष्ठति । अथ चिरात् अनागते गंगदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गो- धामुवाच-“भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतः चिरपरि- चितः ते गङ्गदत्तः तद्गत्वा तत्सकाशं कुत्रचिज्जलाशये अन्विष्य मम सन्देशं कथय । येन आगम्यतां एकाकिना अपि भवता द्रुततरं यदि अन्ये मण्डूका न आगच्छन्ति । अहं त्वया बिना नात्र वस्तुं शक्नोमि । तथा यदि अहं तव विरुद्धं आ- चरामि तत् सुकृतमन्तरं मया विधृतम्” गोधा अपि तद्वच- नात् गङ्गदत्तं द्रुततरमन्विष्य आह-“भद्र गङ्गदत्त ! स तव सुहृत् प्रियदर्शनः तव मार्गं समीक्षमाणः तिष्ठति । तत् शीघ्रं आगम्यतामिति । अपरञ्च तेन तव विरूपकरणे सुकृतमन्तरे