पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 488, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४७३) वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ ३६ ॥ बुद्धि अच्छी है वैसी विद्या अच्छी नहीं बुद्धिहीन मनुष्य सिंहकारकोंकी समान नष्ट होते हैं ॥ ३६ ॥ चक्रधर आह-“कथमेतत् ?” सुवर्णसिद्धिः आह- चक्रधर बोला,-“यह कैसी कथा ?” सुवर्णसिद्धि बोला- कथा ४. कस्मिंश्चित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्र- भावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारंगताः परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान्, केवलं शास्त्रपराङ्- मुखः। अथ तैः कदाचित् मित्रैः मन्त्रितम् । “को गुणो विद्या- या येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जना न क्रियते ? तत्पूर्वदेशं गच्छामः” । तथानुष्ठिते किञ्चिन्मार्गे गत्वा तेषां ज्येष्ठतरः प्राह,-“अहो ! अस्माकमेकः चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्ध्या लभ्यते विद्यां विना । तन्न अस्मै स्वोपार्जितं दास्यामि । तद्गच्छतु गृहम्” । ततो द्वितीयेन अभिहितम्-“भो सुबुद्धे ! गच्छ त्वं स्वगृहं यतः ते विद्या नास्ति” । ततः तृतीयेन अभिहि- तम्,-“अहो ! न युज्यते एवं कर्तुं यतो वयं बाल्यात् प्रभृति एकत्र क्रीडिताः तत् आगच्छतु महानुभावोऽस्मदुपार्जितवि- त्तस्य समभागी भविष्यतीति । उक्तञ्च- किसी स्थानमें चार ब्राह्मणके पुत्र परस्पर मित्रभावको प्राप्त हुए रहते थे । उनमें तीन तो शास्त्रके पारगामी थे परन्तु बुद्धिहीन थे । एक उनमे बुद्धिमान् केवल शास्त्रसे पराङ्मुख था । तब उन मित्रोंने एक समय सम्मति करी । “विद्यासे क्या गुण है जिससे देशान्तरमें जाकर राजोंको सन्तुष्ट करके धन उपार्जन न किया जाय । सो पूर्व देशको चलैं । ऐसा कहकर कुछ मार्गमें जाकर उनमें ज्येष्ठतर बोला,-“अहो हममें एक ही चौथा मूढ केवल बुद्धिमान् परन्तु राजासे भेट केवल बुद्धिसे विद्याके बिना प्राप्त नहीं होती । सो हम इसको अपना