पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 513, कुल 536 में से
संदर्भ में पढ़ें( ४९८ ) पञ्चतन्त्रम् । शब्दायमानोऽश्वकुट्यां प्रत्यासन्नवर्त्तिन्यां प्रविष्टः । तत्र तृण- प्राचुर्य्युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्निज्वालाः तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः।केचित् बन्धनानि त्रोटयित्वा अर्द्धदग्धशरीरा इतश्चेतश्च हेषायमाणा धावमानाः सर्वमपि जनसमूहम् आकुलीचक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच,-"भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चित् दाहो- पशमनोपायः"। तेऽपि शास्त्राणि विलोक्य प्रोचुः,-"देव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण । यत्- तब उसके जानेमें एक दिन वह मेष रसोईमें आया तबही सूपकारोंने और कुछ न पाकर आधे जलते काष्ठसे ताडित किया, प्रज्वलित शरीर शब्द करता हुआ समीपवर्ती अश्वशालामें प्रविष्ट हुआ । वह बहुत तृण रक्खी हुई भूमिमें सब स्थानमें उसके लोटनेसे इसप्रकार अग्नि ज्वाला लग उठी कि किसी घोडेकी आंख फूट गई, कोई मरगये, कोई बन्धनको तोडकर अधजले शरीर इधर उधर हींसते दौडते सबही जनसमूहोंको व्याकुल करते हुए । इसी समय राजा विषाद पूर्वक शालिहोत्रके ज्ञानवाले वैद्योंको बुलाकर बोला,-"भो ! इन घोडों की दाहशान्तिका कोई उपाय कहो"। वेभी शास्त्र देखकर बोले-"देव ! इस विषयमें भगवान् शालिहोत्रने कहा है- कपीनां मेदसा दोषो वह्निदाहसमुद्भवः । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥ ८० ॥ घोडोंके अग्निदाहसे उत्पन्न हुआ दोष वानरोंकी चरबीसे इस प्रकार नष्ट हो जाता है जैसे सूर्यके उदयमे अन्धकार ॥ ८० ॥ तत् क्रियताम् एतत् चिकित्सितं द्राक् यावत् एते न दाह- दोषेण विनश्यन्ति"। सोऽपि तदाकर्ण्य समस्तवानरवधम् आदिष्टवान् । किं बहुना सर्वेपि ते वानरा विविधायुधलगु- डपाषाणादिभिः व्यापादिता इति । अथ सोऽपि वानरयूथपः तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंक्षयं ज्ञात्वा परं विषादम् उपागतः। स त्यक्ताहारक्रियो वनात् वनं पर्य्यटति, अचि- न्तयच्च,"कथमहं तस्य नृप\पसदस्य अनृणताकृत्येन अपकृत्यं करिष्यामि । उक्तञ्च-