पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 514, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (४९९)
सो शीघ्र इनकी चिकित्सा करो कि, यह जबतक दाहके दोषसे नाशको प्राप्त न हों”। वहभी सुनकर सम्पूर्ण वानरोंके वधकी आज्ञा देता हुआ । बहुत कहनेसे क्या है वे सबही वानर अनेक आयुध लगुड पत्थरादिसे मारे गये । तब वह भी वानरयूथप उस पुत्र, पौत्र, भ्रातापुत्र, भानूजे, आदिका क्षय जानकर परम विषादको प्राप्त हुआ । और भोजनको त्याग विचार करते २ इधरसे उधर वनमें घूमने लगा । किस प्रकार मैं इस नृपनीचका अनृणता सम्पादन (वैरका लेना) कर अपकार करूं । कहा है कि- मर्षयेद्धर्षणं योऽत्र वंशजां परनिर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः ॥ ८१ ॥” जो इस संसारमें दूसरेके किये कुलके तिरस्कारको भय वा कामसे सहन करता है उसे पुरुषोंमें अधम जानना उचित है ॥ ८१ ॥” अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मि नीखण्डमण्डितं सरः समासादितम् । तत् यावत् सूक्ष्मेक्षि- कया अवलोकयति तावत् वनचरमनुष्याणां पदपंक्तिप्रवे- शोऽस्ति न निष्क्रमणम् । ततः चिन्तितम् “नूनं अत्र जलान्ते दुष्टग्राहेण भाव्यम्, तत् पद्मिनीनालम् आदाय दूरस्थोऽपि जलं पिबामि” । तथानुष्ठिते तन्मध्यात् राक्षसो निष्क्रम्य रत्नमालाविभूषितकण्ठः तमुवाच,-“भो अत्र यः सलिले प्रवेशं करोति स मे भक्ष्य इति । तत् नास्ति धूर्त्ततरस्त्वत्समोऽन्यो यत् पानीयम् अनेन विधिना पिबसि । ततः तुष्टोऽहम्, प्रार्थ- यस्व हृदयवाञ्छितम्” कपिराह,-“भोः! कियती ते भक्षण- शक्तिः,” स आह- “शतसहस्रायुतलक्षाणि अपि जलप्रवि- ष्टानि भक्षयामि । बाह्यतः शृगालोऽपि मां दूषयति”। वानर आह-“अस्ति मे केनचित् भूपतिना सह अत्यन्तं वैरम्, यदि एनां रत्नमालां मे प्रयच्छसि तत् सपरिवारमपि तं भूपतिं वाक्प्रपञ्चेन लोभयित्वा अत्र सरसि प्रवेशयामि” । सोऽपि श्रद्धेयं व वस्तथ्यं श्रुत्वा रत्नमालां दत्त्वा प्राह,-“भो मित्र ! यत् समुचितं भवति तत् कर्त्तव्यम्” इति। वानरोऽपि रत्नमा लाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रमन् जनैः दृष्टः पृष्टश्च-