पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 77, कुल 536 में से
संदर्भ में पढ़ें( ६२ ) . पञ्चतन्त्रम् ।
तत् त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयि- तव्यमिति”। स आह-“भगवन् ! भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम्”। अथ कृतशयनसमयं देवशर्मा अनु- ग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्त- पादावमर्दनादिपरिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथ एवं गच्छति काले आषाढभूतिश्चिन्तयामास । “अहो ! न कथञ्चिदेष मे विश्वा- समागच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि, किंवा पशुधर्मेण व्यापादयामि” । इत्येवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामादामन्त्र- णार्थं समायातः । प्राह च-“भगवन् ! पवित्रारोपणकृते मम गृहमागम्पतामिति”। तच्छ्रुत्वा देवशर्मा आषाढभूतिना सह प्रहृष्टमनाः प्रस्थितः । अथ एवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषा- ढभूतिमिदमाह-“भो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि तावदेषा कन्था योगेश्वरस्य सावधान- तया रक्षणीया” इत्युक्त्वा गतः । आषाढभूतिरपि तस्मिन्न- दर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र- गुणानुरञ्जितमनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति ताव- त्सुवर्णरोमदेहयूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडुयु- गलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपैत्य ललाटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्याेन रंगभूमिं प्रविश्य आस्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत । “अहो ! मन्दमतिरयं जम्बूकः यदि कथमपि अनयोः संघट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्क- यामि” । क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रवि- शंस्तयोः शिरःसम्पाते पतितो मृतश्च शृगालः । देवशर्मापि