भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 90, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 90

भाषाटीकासमेतम् । ( ७५ ) चिन्तयामास । "किमिदानीं कर्तव्यम् । कथमेतत् महच्छिद्रं स्थगयितव्यम्" । अथ तस्या एवं विचिन्तयन्त्या भर्त्ता कार्य- वशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदे- शस्थः विविधपौरकृत्योत्सुकतया तामाह-"भद्रे ! शीघ्रमा- नीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि" । सापि छिन्ननासिका गृहमध्यस्थितैव कार्य्यकरणापेक्षया क्षुरभा- ण्डात्क्षुरमेकं समाकृष्य तस्य अभिमुखं प्रेषयामास । नापि- तोऽपि उत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तद- भिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टा उर्द्ध्व- बाहू विधाय फूत्कर्तुमना गृहात् निष्चक्राम । "अहो ! पापेन अनेन मम सदाचारवर्त्तिन्याः पश्यत नासिकाच्छेदो विहितः। तत्परित्रायतां परित्रायताम्" । अत्र अन्तरे राजपुरुषाः सम- भ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यान् ऊचुः-"शृण्वन्तु भवन्तः सभासदः । अनेन नापितेन अपराधं विना स्त्रीरत्नमेतद्व्यङ्गितं तदस्य यत् युज्यते तत् क्रिय- ताम्" । इति अभिहिते सभ्या ऊचुः- "रे नापित ! किमर्थं त्वया भार्य्या व्यङ्गिता । किमनया परपुरुषोऽभिलषितः, उत स्वित् प्राणद्रोहः कृतः, किंवा चौर्य्यकर्म आचरितम् । तत् कथ्यतामस्या अपराधः १" । नापितोऽपि प्रहारपीडिततनु- र्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनः सभ्या ऊचुः- "अहो ! सत्यमेतत् राजपुरुषाणां वचः पापात्मा अयम् । अनेन इयं निर्दोषा वराकी दूषिता । उक्तञ्च- यह विचार करते उस सन्यासीको वह रात बडे कष्टसे बीती और वह नाक- कटी दूती अपने घर जाकर विचार करने लगी कि, "अब मैं क्या करू । किस प्रकार यह महाछिद्र छिपाना चाहिये" । उसके यह विचार करतेही उसका स्वामी किसी कार्य्यके वशसे राजकुलमें रहाहुआ प्रातःकाल निज घरमें आकर द्वारपर स्थित हुआही बहुतसे नगरवासियोंके कार्य्यकी उत्कठासे उससे बोला-