पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 95, कुल 536 में से
संदर्भ में पढ़ें( ८० ) पञ्चतन्त्रम् । कथा ५. कस्मिंश्चिदधिष्ठाने कौलिकरथकारौ मित्रे प्रतिवसतः स्म। तत्र च तौ बाल्यात् प्रभृति सहचारिणौ, परस्परमतीव स्ने- हपरौ सदा एकस्थानविहारिणौ कालं नयतः। अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रामहोत्सवः संवृत्तः। तत्र च नटनर्त्तकचारणसंकुले नानादेशागतजनावृते तौ सह- चरौ भ्रमन्तौ, काञ्चिद्राजकन्यां करेणुकारूढां सर्वलक्षणस- नाथां कञ्चुकिवर्षवरपरिवारितां देवतादर्शनार्थं समायातां दृष्टवन्तौ। अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्ट- ग्रहगृहीत इव कामशरैः हन्यमानः सहसा भूतले निपपात। अथ तं तदवस्थमवलोक्य रथकारः तद्दुःखदुःखित आत्म- पुरुषैस्तं समुत्क्षिप्य स्वगृहमानाययत्। तत्र च विविधैः शी- तोपचारैः चिकित्सकोपादिष्टैः मन्त्रवादिभिरुपचर्यमाण- श्चिरात्कथञ्चित्सचेतनो बभूव। ततो रथकारेण पृष्टः। “भो मित्र ! किमेवं त्वमकस्मात् विचेतनः सञ्जातः। तत्कथ्यता- मात्मस्वरूपम् ?”। स आह,-“वयस्य ! यदि एवं तच्छृणु मे रहस्यं येन सर्वामात्मवेदनां ते वदामि यदि त्वं मां सुहृदं मन्यसे ततः काष्ठप्रदानेन प्रसादः क्रियतां, क्षम्यतां यद्वा किञ्चित्प्रणयातिरेकाद्युक्तं तव मयानुष्ठितम्”। सोऽपि तदाकर्ण्य बाष्पपिहितनयनः सगद्गदमूवाच-“वयस्य ! यत्कि- ञ्चिद्दुःखकारणं तद्वद येन प्रतीकारः क्रियते यदि शक्यते कर्तुम्। उक्तञ्च- किसी स्थानमें एक कौलिक और वढई दो मित्र रहतेथे, वह बालकपनसे सहचारी थे, परस्पर अत्यन्त स्नेहवाले सदा एक स्थानमें रहते समय विचरतेथे, तब कभी उस स्थानमें किसी देवताके स्थानमें यात्राका महोत्सव हुआ । वहां नट नर्तक चारणसे युक्त अनेक अनेक देशोंसे आये मनुष्योंसे आवृत वह दोनों सहचर घूमते हुए किसी राजकन्यांको हथिनीपर चढी सम्पूर्ण गहने पहरे अन्तः- पुरके वृद्ध ब्राह्मण और नपुंसकोंसे युक्त देवताके दर्शन करनेके निमित्त आई