भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 98, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 98

भाषाटीकासमेतम् । (८३)

नम् । तदद्यैव तया सह समागमः क्रियताम्” इति । कौलिक आह-“वयस्य ! यत्र कन्यान्तःपुरे वायुं मुक्त्वा न अन्यस्य प्रवेशोऽस्ति तत्र रक्षापुरुषाधिष्ठिते कथं मम तया सह समा- गमः । तत् किं मां असत्यवचनेन विडम्बयसि ?” । रथकार- आह-“मित्र ! पश्य मे बुद्धिवलम्” । एवमभिधाय तत्क्ष- णात् कीलसञ्चारिणं वैनतेयं बाहुयुगलं वायुजवृक्षदारुणा शं- खचक्रगदापद्मान्वितं सकिरीटकौस्तुभं अघटयत् । ततः तस्मिन् कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कीलसञ्चर- णविज्ञानञ्च दर्शयित्वा प्रोवाच-“वयस्य ! अनेन विष्णुरूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्तभू- मिकाप्रासादान्तर्गतां मुग्धस्वभावां त्वां वासुदेवं मन्यमानां स्वकीयमिथ्यावक्रोक्तिभिः रञ्जयित्वा वात्स्यायनोक्तविधिना भज”। कौलिकोऽपि तदाकर्ण्य तथारूपः तत्र गत्वा तामाह- “राजपुत्रि ! सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहाय एव आगतः । तत् क्रियतां मया सह समागमः” इति । सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच- “भगवन् ! अहं मानुषी कीटिकाऽशुचिः भगवान् त्रैलोक्य- पावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ?” । कौलिक आह- “सुभगे ! सत्यमभिहितं भवत्या परं किन्तु राधा नाम मे भार्या गोपकुलप्रसूता प्रथममासीत् सा त्वं अत्र अव- तीर्णा । तेन अहमत्र आयातः” । इति उक्ता सा प्राह- “भगवन् ! यदि एवं तत् मे तातं प्रार्थय सोऽपि अविकल्पं मां तुभ्यं प्रयच्छति”। कौलिक आह--“सुभगे ! न अहं दर्शनपथं मानुषाणां गच्छामि । किं पुनरालापकरणम्, त्वं गान्धर्वेण विवाहेन आत्मानं प्रयच्छ । नो चेत् शापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि” इति। एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा, तां सभयां सल