पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 102, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ८७ )
वातायनस्थो गगनासक्तदृष्टिः यावत्तिष्ठति तावत्तस्मिन् समये गरुडारूढं तं शंखचक्रगदापद्महस्तं यथोक्तचिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधापूरप्लावितमिव आत्मानं मन्यमानः तामुवाच-“प्रिये ! नास्ति अन्यो धन्यतरो लोके मत्त्तस्त्वत्तश्च, यत्प्रसूतिं नारायणो भजते । तत्सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृप्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि”। एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादाव्यतिक्रममकरोत् । ते च तं मर्यादाव्यतिक्रमेण वर्त्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रान्तरे स राजा देवीमुखेन तां दुहितरमुवाच-“पुत्रि ! त्वयि दुहितरि वर्त्तमानायां नारायणे भगवति जामातरि स्थिते तत् किमेवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति। तत् सम्बोध्योऽद्य त्वया निजभर्त्ता यथा मम शत्रून् व्यापादयति” ततः तया स कौलिको रात्रौ सविनयमभिहितः-“भगवन् ! त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न युक्तम् । तत्प्रसादं कृत्वा सर्वान् तान् शत्रून् व्यापादय ” । कौलिक आह-“सुभगे ! कियन्मात्रास्तु एते तव पितुः शत्रवः। तद्विश्वस्ता भव क्षणेनापि सुदर्शनचक्रेण सर्वान् तिलशः खण्डयिष्यामि”। अथ गच्छता कालेन सर्वदेशं शत्रुभिः उद्वास्य स राजा प्राकारशेषः कृतः, तथापि वासुदेवरूपधरं कौलिकमजानन् राजा नित्यमेव विशेषतः कर्पूरागुरुकस्तूरिकादिपरिमलविशेषान् नानाप्रकारवस्त्रपुष्पभक्ष्यपेयांश्च प्रैषयन् दुहितृमुखेन तमूचे-“भगवन् ! प्रभाते नूनं स्थानभङ्गो भविष्यति, यतो यवसेन्धनक्षयः सञ्जातः तथा सर्वोऽपि जनः प्रहारैर्जरितदेहः संवृत्तो योद्धुमक्षमः, प्रचुरो मृतश्च । तदेवं ज्ञात्वा अत्र काले यदुचितं भवति तद्विधेयम्” इति । तच्छ्रुत्वा कौलिकोऽपि अचिन्तयत् । “यत् स्थानभङ्गे जाते मम अनया सह वियोगो भविष्यति । तस्मात् गरुडमारुह्य