पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 101, कुल 536 में से
संदर्भ में पढ़ें( ८६ ) पञ्चतन्त्रम् ।
नदी और नारियोंका समान प्रभाव होताहै, उनके दोनो किनारे और कन्याके मातृ पितृ कुल समान हैं, नदी जलसे और नारी दोषसे अपने कुलको नष्ट करती हैं ॥ २२३ ॥
तथाच- और देखो-
जननीमनो हरति जातवती परिवर्द्धते सह शुचा सुहृदाम् । परसात्कृतापि कुरुते मलिनं दुरतिक्रमा दुहितरो विपदः ॥”
कन्या उत्पन्न होतेही माताका मन हरती है, सुहृद्जनोंके शोचके सहित बढ़ती है, पराये आधीन करनेपर भी मलीन करती है, कन्यारूपी विपत् तरी नहीं जाती ॥ २२४ ॥”
एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाच-“देवि ! ज्ञायतां किमेते कञ्चुकिनो वदन्ति । तस्य कृतान्तः कुपितो येन एतदेवं क्रियते” । देवी अपि तदाकर्ण्य व्याकुलीभूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नखविलिखितशरीरावयवां दुहितरमपश्यत् । आह च-“आः पापे ! कुलकलङ्कारिणि ! किमेवं शीलखण्डनं कृतम् । कोऽयं कृतान्तावलोकितः त्वत्सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम्” इति कोपाटोपविशङ्कटं वदन्त्यां मातरि राजपुत्री भयलज्जानताननं प्रोवाच-“अम्ब ! साक्षात् नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम् । तत् स्वचक्षुषा विलोकयतु निगूढतरा निशीथे भगवन्तं रमाकान्तम्” । तत् श्रुत्वा सा अपि प्रहसितवदना पुलकाङ्कितसर्वाङ्गी सत्वरं गत्वा राजानमूचे-“देव ! दिष्ट्या वर्द्धसे । नित्यमेव निशीथे भगवान् नारायणः कन्यकापार्श्वेऽभ्येति तेन गान्धर्वविवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायनगताभ्यां निशीथे द्रष्टव्यो, यतो न स मानुषैः सह आलापं करोति” । तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिद जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञीसहितो राजा