भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 105, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 105

( ९० ) पञ्चतन्त्रम् ।

( सूर्यके अमावश्याको ) चन्द्र मण्डलमें स्थित होते यदि राहु सूर्य-को ग्रहण करताहै तो यह शरणागतके संग विरक्ति ते ऽस्त्रीयोंको श्लाघनीय है ॥ २३७॥”

एवं निश्चित्य प्रत्यूषे दन्तधावनं कृत्वा तां प्रोवाच—“सुभगे ! समस्तैः शत्रुभिर्हतैस्त्वं पानं च आस्वादयिष्यामि । किं बहुना त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वया आत्मपिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरात् निष्क्रम्य योद्धव्यम्, अहं च आकाशस्थित एव सर्वान् तान् निस्तेजसः करिष्यामि पश्चात्सुखेन भवता हन्तव्याः । यदि पुनरहं तान् स्वयमेव सूदयामि तत्तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्त्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति” । सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय सुसन्नद्धसैन्यो युद्धार्थं निष्चक्राम । कौलिकोऽपि मरणे कृतनिश्चयश्चापपाणि गनगतगरुडारूढो युद्धाय प्रस्थितः । अत्रान्तरे भगवता नारायणेन अतीतानागतवर्त्तमानवेदिना स्मृतमात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः—“भो गरुत्मन् ! जानासि त्वं यन्मम रूपेण कौलिको दारुमयगरुडे समारूढो राजकन्यां कामयते ?” । सोऽब्रवीत्—“देव ! सर्वं ज्ञायते तच्चेष्टितम् । तत् किं कुर्मः साम्प्रतम्” श्रीभगवान्नाह—“अद्य कौलिको मरणे कृतनिश्चयो विहितनियमो युद्धार्थं विनिर्गतः । स नूनं प्रधानक्षत्रियशराहतो निधनमेष्यति । तस्मिन् हते सर्वो जनो वदिष्यति यत्प्रभूतक्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारुमयगरुडे संक्रमणं कुरु । अहमपि कौलिकशरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश्च शत्रुवधात् आवयोर्माहात्म्यवृद्धिः स्यात्” ।