पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 112, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ९७ )
वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयस्तमभ्युपेत्य पप्रच्छुः- "माम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति?" । बक आह-"अस्ति अस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डमण्डितं यच्चतुर्विंशत्यापि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि" । अथ ते तत्र विश्वासमापन्नाः तात ! मातुल ! भ्रातः ! इति ब्रुवाणा अहं पूर्वमहं पूर्वमिति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठे आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचराणां मिथ्यावार्त्तासन्देशैर्मनांसि रञ्जयन्नित्यामिवाहारवृत्तिमकरोत् । अन्यस्मिन् दिने च कुलीरकेणोक्तः- "माम ! मया सह ते प्रथमः स्नेहसम्भाषः सञ्जातः । तत् किं मां परित्यज्य अन्यान्नयसि । तस्मादद्य मे प्राणत्राणं कुरु" । तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान् । “निर्विण्णोऽहं मत्स्यमांसादनेन । तदद्य एनं कुलीरकं व्यञ्जनस्थाने करोमि” । इति विचिन्त्य तं पृष्ठे समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थिपर्वतं शिलाश्रयमवलोक्य मत्स्यास्थीनि परिज्ञाय तमपृच्छत्-“माम! कियद्दूरे स जलाशयः ? मदीयभारेण अतिश्रान्तस्त्वं तत् कथय" । सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह-“कुलीरक ! कुतोऽन्यो जलाशयः मम प्राणयात्रेयम्, तस्मात् स्मर्य्यतामात्मनोऽभीष्टदेवता । त्वामपि अस्यां शिलायां निक्षिप्य भक्षयिष्यामि" । इत्युक्तवति तस्मिन् स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैः तज्जलाशयमाससाद । ततः सर्वैरेव
७