पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 111, कुल 536 में से
संदर्भ में पढ़ें( ९६ ) पञ्चतन्त्रम् ।
जो सूर्यपुत्र ( शनि ) इस लोकमें रोहिणी शकटको भेदन करे तो बारह वर्षतक इन्द्र पृथ्वीमें वर्षा नहीं करता है ॥२३३॥
तथाच-
और भी-
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थिशकलकीर्णा कापालिकमिव व्रतं धत्ते ॥ २३४॥
रोहिणीका शकट शनिसे भेदित होनेसे पृथ्वीमें पातक होता है। तथा पृथ्वी भस्म अस्थिके खण्डसे व्याप्त होकर कापालिक व्रतको धारण करती है॥२३४॥
तथाच-
और देखो--
रोहिणीशकटमर्कनन्दनश्छिनत्ति रुधिरोऽथवाशशी ।
किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति संक्षयः २३५
जो रोहिणीके शकटको शनि मंगल अथवा चन्द्रमा भेदनकरे तो इस अनिष्ट सागरको मैं क्या कहूँ सबही लोक क्षय होजांय ॥ २३५ ॥
रोहिणीशकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः।
क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः॥
चन्द्रमाके रोहिणी शकटमें स्थित होनेसे शरण रहित होके मनुष्य बालक मारकर खानेवाले तथा सूर्यके तापसे भेदको प्राप्त हुए जलके पीनेवाले कहां जांय ॥ २३६ ॥
तदेतत्सरः स्वल्पतोयं वर्त्तते । शीघ्रं शोषं यास्यति अस्मिन् शुष्के यैः सह अहं वृद्धिं गतः सदैव क्रीडितश्च ते सर्वे तोयाभावात् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुमहसमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते, केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति तेनाहं विशेषात् रोदिमि यद्वीजशेषमात्रमप्यत्र न उद्धरिष्यति"। ततः स तदाकर्ण्य अन्येषामपि जलचराणां तत् तस्य