भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 118, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 118

भाषाटीकासमेतम्। (१०३)

जिस प्रकार सूक्ष्मबीजोंके अंकुर यत्नोसे रक्षितहुए समयपर फल देते हैं इसी प्रकार सुरक्षित लोकभी ॥ २४६ ॥

हिरण्यधान्यरत्नानि यानानि विविधानि च ।
तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥ २४७ ॥

सुवर्ण, धान्य, रत्न, विविध यान तथा औरभी जो कुछ है वह सब राजाको प्रजासे ही प्राप्त होताहै ॥ २४७ ॥

लोकानुग्रहकर्त्तारः प्रवर्द्धन्ते नरेश्वराः ।
लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ॥ २४८ ॥”

लोकोपर अनुग्रह करनेवाले राजा वृद्धिको प्राप्त होतेहैं और लोकके क्षय करनेसे नाश होजातेहैं इसमे सन्देह नही ॥ २४८ ॥”

अथ तेषां तद्वचनमाकर्ण्य भासुरक आह—“अहो ! सत्यमभिहितं भवद्भिः परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि”। अथ ते तथैव प्रतिज्ञाय निर्वृतिभाजः तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात्तस्य भोजनार्थं मध्याह्नसमये उपतिष्ठते । अथ कदाचित् जातिक्रमाच्छशकस्य अवसरः समायातः। स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति तावत् मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति तावत्कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितं । “यद्भव्य उपायोऽस्ति, अहं भासुरकं प्रकोष्य स्वबुद्ध्या अस्मिन् कूपे पातयिष्यामि”। अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठः कोपाविष्टः सृक्किणी परिलेलिहन् व्यचिन्तयत् । “अहो ! प्रातराहाराय निःसत्वं वनं मया कर्त्तव्यम्” । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य