भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 146, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 146

भाषाटीकासमेतम् । ( १३१ )

प्रदानं दत्त्वा मदोत्कटसकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्मवृत्तान्तः सार्थभ्रंशसमुद्भवो निवेदितः । ततः सिंहेनोक्तम्- “भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः । तदत्रैव अरण्ये निर्विशङ्को मरकतसदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस” । सोऽपि तथेत्युक्त्वा तेषां मध्ये विचरन् न कुतोऽपि भयमिति सुखेन आस्ते । तथान्येद्युर्मदोत्कटस्य महागजेन अरण्यचारिणा सह युद्धमभवत् । ततस्तस्य दन्तमुशलप्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । तेऽपि सर्वे काकादयोऽप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान् सिंहः प्राह- “भो ! अन्विष्यतां कुत्रचित् किञ्चित् सत्त्वं येन अहं एतामपि दशां प्राप्तस्तद्वशा युष्मद्भोजनं सम्पादयामि” । अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन्न किञ्चित् सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं मन्त्रयतः । शृगाल आह- “भो वायस ! किं प्रभूतभ्रान्तेन, अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति तदेनं हत्वा प्राणयात्रां कुर्मः” । वायस आह- “युक्तमुक्तं भवता, परं स्वामिना तस्य अभयप्रदानं दत्तमास्ते न वध्योऽयम्” इति। शृगाल आह- “भोः वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति तत्तिष्ठन्तु भवन्तोऽत्रैव यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि” । एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्य इदमाह- “स्वामिन् ! समस्तवनं भ्रान्त्वा वयमागताः, न किञ्चित्सत्त्वमासादितम्, तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचालितुं न शक्नुमः। देवोऽपि पथ्याशी वर्त्तते । तद्यदि देवादेशो भवति तत् क्रथनकपिशितेन अद्य पथ्यक्रिया क्रियते” । अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य