पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 174, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( १९९ )
तं समुद्रं शोषयामः” । एवं चिन्तयनस्तस्य विष्णुदूतः समागत्य आह--“भो गरुत्मन् ! भगवता नारायणेन अहं तव पार्श्वे प्रेषितः, देवकार्यार्थं भगवान् अमरावत्यां यास्यतीति तत् सत्वरमागम्यताम्” । तच्छ्रुत्वा गरुडः साभिमानं प्राह,--“भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनाथ अस्मत्स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तञ्च--
यह वचन गरुड सुन उसके दुःखसे दुःखी हुआ क्रोधकर विचारने लगा । “अहो ! इन पक्षियोंने सत्य कहा सो आज जाकर उस सागरको शोषलेंगे” । उसके यह विचार करनेमें विष्णुदूत आनकर बोला,--“भो गरुड ! नारायण भगवान्ने मुझे तुम्हारे पास भेजा है । देवकार्यके निमित्त भगवान् अमरावतीको जायगे सो शीघ्र आओ” । यह सुन गरुड अभिमानपूर्वक बोला,--“भो दूत ! मुझ कुभृत्यसे भगवान् क्या करेंगे । सो जाकर उनसे कहो किसी और भृत्यको मेरे स्थानमें वहनयोग्य करें । भगवान्से मेरा नमस्कार कहदेना । कहाहै--
यो न वेत्ति गुणांर्यस्य न तं सेवेत पण्डितः ।
न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥ ३८१ ॥”
जो जिसके गुण नहीं जानता बुद्धिमान्को चाहिये कि, उसकी सेवा नकरे उससे कुछ फल नहीं प्राप्त होताहै जैसे जोती हुई ऊषरभूमिसे ॥ ३८१ ॥”
दूत आह--“भो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया न एतदभिहितमीदृक् । तत् कथय किं ते भगवता अपमानस्थानं कृतम् ?” गरुड आह--“भगवदाश्रयभूतेन समुद्रेण अस्मट्टिट्टिभाण्डानि अपहृतानि, तद्यदि तस्य विग्रहं न करोति तदहं भगवतो न भृत्य इत्येष निश्चयस्त्वया वाच्यः । तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम्” । अथ दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय भगवान् चिन्तयामास । “अहो ! स्थाने कोपो वैनतेयस्य, तत् स्वयमेव गत्वा सम्मानपुरःसरं तमानयामि । उक्तञ्च,--