पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 193, कुल 536 में से
संदर्भ में पढ़ें( १७८ ) पञ्चतन्त्रम् ।
जो राजा चित्रविचित्र कथाके आस्वादवाले धनुष न चढानेवाले भृत्योंसे रमण करते हैं ( राजकाज नहीं करते हैं ) शत्रु उनकी लक्ष्मीसे रमण करते हैं ॥ ४१६ ॥
तत् किं मूर्खोपदेशेन, केवलं दोषो न गुणः। उक्तञ्च-
सो मूर्खके उपदेशसे क्या केवल दोषही है गुण नहीं। कहाहै-
नानाम्यं नमते दारु नाश्मनि स्यात्क्षुरक्रिया ।
सूचीमुख विजानीहि नाशिष्यायोपदिश्यते ॥ ४१७ ॥
नहीं झुकने योग्य काष्ठ टेढ़ा नहीं होता, पत्थरका क्षौरकर्म नहीं होता, अशिष्यको उपदेश नदे इसमें सूचीमुखका दृष्टान्त है ॥ ४१७ ॥
दमनक आह-"कथमेतत् ?" सोऽब्रवीत्-
दमनक बोला-"यह कैसे ?" वह बोला-
कथा १७.
अस्ति कस्मिंश्चित् पर्वतैकदेशे वानरयूथम् । तच्च कदाचित् हेमन्तसमये अतिकठोरवातसंस्पर्शवेपमानकलेवरं तुषारवर्षोद्धतप्रवर्षघनधारानिपातसमाहतं न कथञ्चित् शान्तिमगमत् । अथ केचित् वानरा वह्निकणसदृशानि गुञ्जाफलानि अवचित्य वह्निवाञ्छ्या फूत्कुर्वन्तः समन्तात् तस्थुः। अथ सूचीमुखो नाम पक्षी तेषां तं वृथायास मवलोक्य प्रोवाच-"भोः ! सर्वे मूर्खाः यूयं, नैते वह्निकणाः, गुञ्जाफलानि एतानि, तत् किं वृथा श्रमेण, न एतस्मात् शीतरक्षा भविष्यति । तत् अन्विष्यतां कश्चित् निर्वातो वनप्रदेशो गुहा वा गिरिकन्दरं वा । अद्यापि साटोपा मेघा दृश्यन्ते" । अथ तेषामेकतमो वृद्धवानरः तमुवाच-"भो मूर्ख ! किं तव अनेन व्यापारेण, तद्गम्यताम् । उक्तञ्च-
किसी पर्वतपर वानरोंका यूथ है वह एक समय हेमन्तसमयमें अति कठोर पवनके लगनेसे कंपितशरीर शीत और वर्षासे उद्धत घनवर्षाके धारानिपातसे