भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 208, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 208

भाषाटीकासमेतम् । ( १९३ )

भक्तिसे कोई मनुष्य किसीका कुछ प्रिय नहीं करता है, भय, लोभ वा कार्यकारणको छोड़कर ( अन्य कारण नहीं है ) ॥ ४४६ ॥

तथाच-
तैसेही-

अत्यादरो भवेद्यत्र कार्यकारणवर्जितः ।
तत्र शङ्का प्रकर्त्तव्या परिणामेऽसुखावहा ॥ ४४७ ॥

जहा कार्यकारणको छोडकर बहुत आदर होता है उस स्थानमे अवश्य शंका करनी चाहिये परिणाममें बुरा है ॥ ४४७ ॥

अथ असौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनास्तेन अभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदीगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलया आच्छाद्य सत्वरं गृहमागतः पृष्टश्च तेन वणिजा,-"भो अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यः त्वया सह नदीं गतः" । इति स आह,-"नदीतटात् स श्येनेन हतः" इति । श्रेष्ठ्याह,-"मिथ्यावादिन् ! किं क्वचित् श्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतमन्यथा राजकुले निवेदयिष्यामि।" इति । स आह,-"भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोहभारघटितां तुलां न भक्षयन्ति, तत अर्पय मे तुलां, यदि दारकेण प्रयोजनम्" । एवं तौ विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच-"भोः ! अब्रह्मण्यमब्रह्मण्यम् !! मम शिशुः अनेन चौरेण अपहृतः" । अथ धर्माधिकारिणः तमूचुः,-"भोः ! समर्प्यतां श्रेष्ठिसुतः" । स आह,-"किं करोमि, पश्यतो मे नदीतटात् श्येनेन अपहृतः शिशुः" । तच्छ्रुत्वा ते प्रोचुः,-"भो ! न सत्यमभिहितं भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति ?" स आह,-
भो भोः ! श्रूयतां मद्वचः-

१३