पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 218, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (२०३)
जिसकी छायामें मृग सोते हैं, पक्षिसमूहोंसे जो चारों ओरसे ढके पत्ते-वाला, कीटोंसे ढकी खखोड़वाला, स्कन्धमें वानरोंसे युक्त, भौरोंसे बेडर पिये फूलरसवाला, सम्पूर्ण अगोंसे बहुत जीवोंके संगका सुख देनेवाला, वहही वृक्ष श्लाघनीय है इसके अतिरिक्त वृक्ष पृथ्वीके भारभूत हैं ॥ २ ॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म। स कदाचित् प्राणयात्रार्थं पुरमुद्दिश्य प्रचलितो यावत् पश्यति तावत् जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्द्ध्वकेशो यमकिंकराकारो नरः सम्मुखो बभूव । अथ तं दृष्ट्वा शंकितमना व्यचिन्तयत् । "यदयं दुरात्मा अद्य मम आश्रयवटपादपसम्मुखोऽभ्येति । तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा"। एवं बहुविधं विचिन्त्य तत्क्षणान्नित्य तमेव वटपादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-"भो ! अयं दुरात्मा लुब्धको जालतण्डुलहस्तः सम्भ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तंडुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूटसदृशा द्रष्टव्याः" । एवं वदतस्तस्य स लुब्धकस्तत्र वटतले चागत्य जालं प्रसार्य सिन्दुवारसदृशान् तण्डुलान् प्रक्षिप्य न अतिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते लघुपतनकवाक्यार्गलया निवारितास्तान् तण्डुलान् हालाहलांकुरानिव वीक्षमाणा निभृताः तस्थुः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थं परिश्रमन् तान् तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वालौल्यात् भक्षणार्थमपतत् सपरिवारो निबद्धश्च । साधु इदमुच्यते-
वहा लघुपतनक नाम काक रहता था, वह कभी प्राणयात्राके निमित्त पुरकी ओरको ज्योंही चला, तबतक जाल हाथमे लिये काला शरीर फटे पैर ऊर्ध्वकेश यमदूतकी समान एक मनुष्य सन्मुख हुआ । उसको देख शंकित मनसे यह विचार करने लगा । “जो यह दुरात्मा आज मेरे आश्रित वटके सन्मुख