पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 237, कुल 536 में से
संदर्भ में पढ़ें( २२२ ) पञ्चतन्त्रम् ।
किं बहुना-
बहुत कहनेसे क्या है-
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नखमांसवत् ।
मूषको वायसश्चैव गतौ कृत्रिममित्रताम् ॥ ५६ ॥
दुर्भेद्य नख मांसकी समान निरन्तर प्रीति कर देखो मूषक और वायस कृत्रिम मित्रताको प्राप्त हुए ॥ ५६ ॥
एवं स मूषकस्तदुपकाररञ्जितः तथा विश्वस्तो यथा तस्य पक्षमध्ये प्रविष्टः तेन सह सर्वदैव गोष्ठीं करोति । अथ अन्यस्मिन्नहनि वायसोऽश्रुपूर्णनयनः समभ्येत्य सगद्गदं तमुवाच,- “भद्र हिरण्यक ! विरक्तिः सञ्जाता मे सांप्रतं देशस्य अस्य उपरि, तदन्यत्र यास्यामि”। हिरण्यक आह,-“भद्र ! किं विरक्तेः कारणम् ?” स आह,-“भद्र ! श्रूयताम् । अत्र देशे महत्या अनावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वात् जनो बुभुक्षापीडितः कोऽपि बलिमात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षितजनैः विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमपि आयुःशेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणमृतेनाहं विदेशं चलित इति बाष्पमोक्षं करोमि”। हिरण्यक आह-“अथ भवान् क प्रस्थितः?” स आह,-“ अस्ति दक्षिणापथे वनगहनमध्ये महासरः तत्र त्वत्तोऽधिकः परमसुहृत् कूर्मो मन्थरो नाम । स च मे मत्स्यमांसखण्डानि दास्यति तद्भक्षणात् तेन सह सुभाषितगोष्ठीसुखमनुभवन् सुखेन कालं नेष्यामि । न अहमत्र विहङ्गानां पाशबन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तञ्च-
इसप्रकार वह मूषक उसके उपकारसे रंजित हुआ ऐसे विश्वासको प्राप्त हुआ कि, उसके सहित सदा गोष्ठी करता। फिर किसी एक दिन काक आंखोंमें आंसूभरे उसके निकट आय गद्गद स्वरसे उससे बोला,-“भद्र हिरण्यक ! इस देशपर अब मुझे वैराग्य हुआ है सो और स्थानमें जाऊंगा”, हिरण्यक बोला,-“भद्र ! वैराग्यका कारण क्या है ?” वह बोला,-“भद्र ! सुनो इस देशमें बड़ी अना-