पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 245, कुल 536 में से
संदर्भ में पढ़ें( २३० ) पञ्चतन्त्रम् ।
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः । तत्र ये सदने यान्ति ते शृंगरहिता वृषाः ॥ ६८ ॥
जो गृही अपने यहां अतिथिको आया हुआ देखकर दिशाओंको अथवा नीचेको देखता है उनके घर जो जाते हैं वे विना सींगके बैल हैं ॥ ६८ ॥
नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः । गुणदोषकथा नैव तत्र हर्म्ये न गम्यते ॥ ६९ ॥
जहां उठनेकी क्रिया नहीं है ( वडेको देख छोटोंका उठना ) मधुर अक्षरोंसे बातचीत नहीं है तथा गुण दोषकी कथा जहां नहीं है उनके स्थानमें जाना उचित नहीं है ॥ ६९ ॥
तदेकमठप्राप्त्या अपि त्वं गर्वितः, त्यक्तः सुहृत्स्नेहः । न एतत् वेत्सि यत् त्वया मठाश्रयव्याजेन नरकोपार्जनं कृतम् । उक्तञ्च–
सो एक मठको प्राप्त होकरभी तू गर्वित हुआ है और सुहृत्का स्नेह त्याग दिया है यह नहीं जानता कि मठ आश्रयके बहानेसे तैंने नरककी प्राप्ति की। कहा है–
नरकाय मतिस्ते चेत्पौरोहित्यं समाचर । वर्षं यावत्किमन्येन मठचिन्तां दिनत्रयम् ॥ ७० ॥
नरक जानेकी इच्छा हो तो पुरोहिती कर्म कर सो एकही वर्ष बहुत है और मठपति होनेकी चिन्तासे तीनही दिनमें नरक होता है ॥ ७० ॥
तन्मूर्ख ! शोचितव्यः त्वं गर्वं गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि” । अथ तत् श्रुत्वा भयत्रस्तमनाः ताम्रचूडः तमुवाच,–“भो भगवन् ! न त्वत्समोऽन्यो मम सुहृत् कश्चिदस्ति, परं तत् श्रूयतां गोष्ठीशैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लुत्य आरोहति भिक्षाशेषञ्च तत्रस्थं भक्षयति। तदभावात् एव मठे मार्जनक्रिया अपि न भवति । तन्मृषकत्रासार्थमेतेन वंशेन भिक्षापात्रं मुहुर्मुहुः ताडयामि नान्यत् कारणमिति । अपरमेतत् कुतूहलं पश्य अस्य दुरात्मनो यन्मार्जारमर्कटा-