भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 28, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 28

भाषाटीकासमेतम् । ( १३ )

तब उसके करटक, दमनक नामवाले दो शृगाल मन्त्रीके पुत्र अधिकारसे भ्रष्ट सदा अनुयायी थे । वह दोनो परस्पर सम्मति करने लगे, उसमे दमनक बोला— “भद्र करटक! यह तो हमारा स्वामी पिंगलक जल पीनेको यमुनाकच्छमें प्राप्त हो स्थित हुआ था। क्या कारण है कि, प्याससे व्याकुल होकरभी लौटकर अपनी सेनाकी मण्डल रचनाको विधानकर दुर्मनस्कतासे तिरस्कृत हुआ इस वट वृक्षके नीचे बैठा है?” करटक बोला—“भद्र ! हमारा इस व्यापारसे क्या लाभ है, कहा भी है—

अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥ २१ ॥”

जो मनुष्य अनधिकारियोंमे अधिकार करनेकी इच्छा करता है वही नाश होता है, जैसे कीलको उखाडकर वानर ॥ २१ ॥ ”

दमनक-आह—“कथमेतत्” ? । सोऽब्रवीत्—
दमनक बोला “यह कैसी कथा है’ ? ? वह बोला—

कथा १.

कस्मिंश्चित् नगराभ्यासे केनापि वणिक्पुत्रेण तरुषण्डमध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थपत्यादयः ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानरयूथमितश्चेतश्च परिभ्रमत आगतम् । तत्र एकस्य कस्यचित् शिल्पिनोऽर्द्धस्फोटितोऽञ्जनवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्यनिहितेन तिष्ठति एतस्मिन् अन्तरे ते वानराः तरुशिखरप्रासादशृङ्गदारुपर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्नमृत्युः चापल्यात् तस्मिन्नर्द्धस्फोटितस्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावत् उत्पाटयितुमारेभे तावत् तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानात् चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतोऽहंब्रवीमि “अव्यापारेषु” इति । आवयोः भक्षितशेष आहारोऽस्त्येव, तत् किमनेन व्यापारेण”। दमनक आह—“तत् किं भवान् आहारार्थी केवलमेव। तन्न युक्तम् । उक्तं च—

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित) · पृष्ठ 28, कुल 536 में से · BharatKosha