भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 303, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 303

अथ काकोलूकीयं तृतीयं तन्त्रम्।

अथ इदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । तस्य अयमाद्यः श्लोकः-

भाषाटीकासहित यह तीसरा तंत्र काकोलूकीय नामक प्रारंभ किया जाता है जिसकी आदिमें यह श्लोक है-

न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य ।
दग्धां गुहां पश्य उलूकपूर्णां काकप्रणीतेन हुताशनेन ॥१॥

प्रथम विरोध किये और पीछे मित्रताको प्राप्त हुए शत्रु का विश्वास नहीं करना चाहिये उलूकसे पूर्ण गुहाको काकद्वारा अग्नि दी हुई देखो ॥ १ ॥

तद्यथा अनुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थः अनेकशाखासनाथोऽतिघनतरपत्रच्छदो न्यग्रोधपादपोऽस्ति, तत्र च मेघवर्णो नाम वायसराजोऽनेककाकपरिवारः प्रतिवसति स्म । स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति स्म । तथा अन्योऽरिमर्दनो नाम उलूकराजोऽसंख्योल्कपरिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । स च रात्रौ अभ्येत्य सदा एव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथ उलूकराजः पूर्वविरोधवशाद्यं कञ्चिद्वायसं समासादयति तं व्यापाद्य गच्छति । एवं नित्याभिगमनात् शनैः शनैः तत् न्यग्रोधपादपदुर्गं तेन समन्तात् निर्वायसं कृतम् । अथवा भवत्येवम् !
उक्तञ्च-

सो ऐसा सुना जाता है । दक्षिण देशमें एक महिलारोप्य नाम नगर है । उसके निकट अनेक शाखावाला अति घने पत्तोंसे व्याप्त न्यग्रोधका वृक्ष है । वहां मेघवर्णनाम काकोंका राजा अनेक काकोंके साथ रहताथा । वह वहां दुर्ग रचना किये कुटुम्बसहित समय बिताताथा । और दूसरा अरिमर्दन नाम उलूकराज असंख्य उलूकोंके सहित पर्वतकी गुहाके दुर्गमे आश्रय किये रहताथा । वह